Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 486
________________ तथा लक्ष्य-रूपे कथानके 'सीता-प्रत्याख्यानं' नाम विंशतितमः सर्गः-४५३ १५३०-मन्यु वध्या भट-वध-कृतं बाल-वृद्धस्य राजन् !, शास्त्राऽभिज्ञाः सदसि सु-धियः सन्निधिं ते क्रियासुः, संरंसीष्ठाः सुर-मुनि-गते वर्मनि प्राज्य-धर्मे, संभुत्सीष्ठाः सु-नय-नयनर विद्विषामीहितानि.' ३० इति भट्टिकाव्ये तिङन्त-काण्डे लिङ्-विलसितो नामैकोनविंशति-तमः सर्गः ॥ मन्युमित्यादि-अन्यच्च हे राजन् ! बालानां वृद्धानां च । सर्वो द्वन्द्वो विभाफैकवद्भवतीति बालाश्च वृद्धाश्च बालवृद्धम् । तस्य मन्यु शोकम् । भटवधकृतं भटानां पितृपुत्रादीनां च यो वधः तस्कृतम् । वध्याः प्रियवचनार्थप्रदानादिमिरपनेष्यसि । शास्त्रार्थज्ञाः शास्त्रार्थकुशलाः ते तव सदसि सभायां सन्निधिं क्रियासुः । सन्निहिता भवन्त्वित्यर्थः । सुरैर्मुनिभिश्च गते सेविते वर्मनि मार्ग प्राज्यधर्मे भूरिपुण्ये संरंसीष्ठाः रंस्यसे । द्विषां शत्रूणां ईहितानि चेष्टितानि सुनयनयनैः शोभनाः ये नयाः तैरेव नयनैश्चक्षुभिरिवावस्थितैः सम्भुत्सीष्ठाः जानीयाः ज्ञास्यसि । 'बुध अवगमने' एकाचो बशो भष् ॥ इति श्री-जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री-भट्टिकाव्ये चतुर्थे तिङन्त-काण्डे लक्षण-रूपे षष्ठः परिच्छेदः (वर्गः), तथा लक्ष्य-रूपे कथानके 'विभीषणाभिषेको नाम एकोनविंशतितमः सर्गः ॥ १९ ॥ विंशः सर्गः। इतः प्रभृति लोटमधिकृत्य तद्विलसितमाह-तत्र 'लोट् च' इति वचनाद्विध्यादिष्वर्थेषु लोट् । ततोऽन्यत्रापि दर्शयिष्यति१५३१-समुपेत्य ततः सीतामुक्तवान् पवनाऽऽत्मजः- ॥ दिल्या वर्धस्व वैदेहि ! हतस् त्रैलोक्य-कण्टकः॥१॥ समुपेत्येत्यादि-ततोऽनन्तरं पवनात्मजः रामाज्ञया सीतां समुपेत्य समुपागम्योक्तवान् । हे वैदेहि ! रावणस्त्रैलोक्यस्य प्रतोदकत्वात् कण्टको हतस्तेन दिष्ट्या प्रियवचनेन वर्धस्व नियोगतो वय॑सीति । निमन्त्रणे लोट् ॥ १५३२-अनुजानीहि हन्यन्तां मयैताः क्षुद्र-मानसाः ॥ रक्षिकास् तव राक्षस्यो, गृहाणैतासु मत्सरम्. ॥२॥ अनुजानीहीत्यादि-अनुजानीहि अनुज्ञां प्रयच्छ । प्रार्थनायां लोट् । येन मयता राक्षस्यस्तव रक्षिकाः क्षुदमानसाः पापाशयाः हन्यन्तां विनाश्यन्ताम् । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514