Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji
View full book text
________________
४५२ भट्टिकाव्ये-चतुर्थे तिडन्त-काण्डे लक्षण-रूपे षष्ठो वर्गः, लिङ् । इच्छार्थस्य धतोरुपपदत्वात् । यतः सर्व एव सुहृत् सुहृदं वृद्धिसंस्थं उदयस्थमिच्छेत् इच्छति । २०१६। इच्छार्थेभ्यो विभाषा वर्तमाने ।३।३।१६०।' इति लिङ् ॥ १५२६-वर्धिषीष्ठाः स्वजातेषु,
वध्यास् त्वं रिपु-संहतीः ॥ भूयास् त्वं गुणिनां मान्यस्,
तेषां स्थेया व्यवस्थितौ. ॥ २६ ॥ वर्धिषीष्ठा इत्यादि-स्वजातेषु स्वजातिषु राक्षसेषु मध्ये त्वं वर्धिषीष्ठाः वृद्धिमान् भविष्यसि । आशिषि लिङ् । एवं वक्ष्यमाणेष्वपि सर्वत्र । रिपुसंहतीः शत्रुसमूहान् वध्याः विनाशयिष्यसि । '२४३३। हनो वध लिङि ।।१४२।' भूयाश्च गुणिनां मान्यः । श्रुतशीलवता मानाहश्च भविष्यसि । तेषां च गुणिनां व्यवस्थायां चिरकालं स्थेयाः स्थास्यसि ॥ १५२७-धेयास् त्वं सुहृदां प्रीति,
वन्दिषीष्ठा दिवौकसः ॥ सोमं पेयाश् च, हेयाश् च
हिंस्रा हानि-करीः क्रियाः ॥ २७ ॥ धेया इत्यादि-वं सुहृदां प्रीतिं धेयाः जनयिष्यसि । दिवौकसो देवान्वन्दिषीष्ठाः प्रणंस्यसि । सोमं पेयाः पास्यसि । तथा हिंसाः परोपघातिकाः हानिकरीः अपचयहेतुकाः क्रियाः हेयाः त्यक्ष्यसि ॥ १५२८-अवसेयाश् च कार्याणि धर्मेण पुर-वासिनाम् , ॥
अनुरागं क्रिया राजन् ! सदा सर्व-गतं जने.॥२८॥ अवसेया इत्यादि-पुनः । पुरवासिनां पौराणां कार्याणि धर्मेणावसेयाः समाप्स्यसि । १२२२॥ षोऽन्तकर्मणि' । हे राजन् ! अत्र जने अनुरागं सर्वगतं सर्वव्यापिनं क्रियाः करिष्यसि ॥ १५२९-घानिषीष्ट त्वया मन्युर्, ग्राहिषीष्ट समुन्नतिः ॥
रक्षोभिर् दर्शिषीष्ठास् त्वं, द्रक्षीरन् भवता च ते. २९ घानिषीष्टेत्यादि-मन्युः क्रोधः त्वया घानिषीष्ट हनिष्यते । चिण्वद्भावो वृद्धिर्घत्वं च । समुन्नतिरभ्युच्चयः ग्राहिषीष्ट ग्रहीष्यते । रक्षोभिर्दर्शनपरैर्दर्शिषीष्ठाः स्वं द्रक्ष्यसे । ते च राक्षसाः भवता दर्शनपरेण च दक्षीरन् । अविण्वदावपक्षः॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratvww.umaragyanbhandar.com

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514