Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 484
________________ तथा लक्ष्य-रूपे कथानके विभीषणाभिषेको'नामैकोनविंशतितमः सर्गः-४५१ १५२१-स भवान् भ्रातृ-वद् रक्षेद् यथावदखिलं जनम् , ॥ न भवान् संप्रमुह्येच् चेदाश्वस्युश् च निशाचराः, २१ स इत्यादि-चेद्यदि भवाम सम्प्रमुह्येत् मोहं न गच्छेत् तदा स भवान् भ्रातृवत् यथा भ्रात्रा जनो रक्ष्यते तद्वत् भखिलं जनं यथावत् सम्यक् रक्षेत् । एते च निशाचरा भाश्वस्युराश्वासं गच्छेयुः । २०१३। हेतुहेतुमतोर्लिङ् ।३।३। १५६।' अत्र प्रमोहो हेतुः । जनरक्षणं निशाचराश्वासनं च हेतुमत् । श्वसेरदादित्वाच्छपो लुक् । अश्वसेयुरिति पाठान्तरम् ॥ १५२२-ततः स गतवान् कर्तुं भ्रातुरग्नि-जल-क्रियाम् ॥ प्रोक्तवान् कृत-कर्तव्यं वचो रामोऽथ राक्षसम्.॥२२॥ तत इत्यादि-ततो वचनानन्तरं भ्रातुरग्निक्रियां जलक्रियां च कर्तुं गतवान् । अथ कृतकर्तव्यं राक्षसं रामः वचः प्रोक्तवान् ॥ १५२३-अम्भांसि रुक्म-कुम्भेन सिञ्चन् मूर्ध्नि समाधिमान्- ॥ 'त्वं राजा रक्षसां लङ्का मवेक्षेथा विभीषण? ॥ २३ ॥ अम्भांसीत्यादि-रुक्मकुम्भेन स्वर्णकलशेनाम्भांसि जलानि मूर्ध्नि सिञ्चन् पातयन् । रामः प्रोक्तवानिति पूर्वेणान्वयः । हे विभीषण ! (समाधिमान् ध्यानवान् ) त्वमद्यप्रभृति रक्षसां राजा लङ्कामवेक्षेथाः कार्याकार्यनिरूपणेन द्रक्ष्यसि ॥ १५२४-क्रुद्धानंनुनयेः सम्यक्, धनैर्लुब्धानुपार्जयेः, ॥ मानिनो मानयेः काले, त्रस्तान् पौलस्त्य ! सान्त्वयः ॥ २४ ॥ क्रुद्धानित्यादि-हे पौलस्त्य ! क्रुद्धाननुनयेः प्रसादयिष्यसि । ये लुब्धा. स्तान् धनेनोपार्जयेः दानेन गृहीष्यसि । मानिनः सत्कारोचिते काले मानयेः पूजयिष्यसि । ब्रस्तान भीतान् सान्त्वयेः समाश्वासयिष्यसि । सर्वत्र निमन्त्रणे नियोगकरणे प्रार्थनायां वा लिङ्॥ १५२५-इच्छा मे परमा, नन्देः कथं त्वं वृत्र-शत्रु-वत्, ॥ इच्छेद्धि सुहृदं सर्वो वृद्धि-संस्थं यतः सुहृत्. ॥२५॥ इच्छेत्यादि-इयं च मे इच्छा महती । यवं वृनशत्रुवदिन्द्र इव कथमा. नन्देः मुदितो भविष्यसि । '२८१४॥ इच्छार्थेषु लिङ्लोटौ ।३।३।१५७।' इति Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514