Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 482
________________ तथा लक्ष्य रूपे कथानके विभीषणाभिषेको'नामैकोनविंशतितमः सर्गः-४४९ १५१३-यज्ञ-पात्राणि गात्रेषु चिनुयाच् च यथा-विधि, ॥ जुहुयाच् च हवि वह्नौ, गायेयुः साम सामगाः.' १३ यक्षपात्राणीत्यादि-स एवं यथाविधि यथाक्रमं यज्ञस्य पात्राणि घुगादीनि गात्रेषु विचिनुयात् । हविराज्यं वह्नौ जुहुयात् । सामगाः छन्दोगाः साम च गायेयुः । सर्वत्र विधौ लिङ् ॥ १५१४-गत्वा ऽथ ते पुरी लङ्कां कृत्वा सर्व यथोदितम् ॥ समीपेऽन्त्याऽऽहुतेः साऽस्राः प्रोक्तवन्तो विभीषणम्-॥ १४ ॥ गत्वेत्यादि-अथानन्तरं ते मत्रिणः लङ्कां गत्वा यथोदितं च कृत्वा । अन्त्याहुतेर्मृताहुतेः अनन्तरं सानाः सबाष्पाः विभीषणं प्रोक्तवन्तः ॥ १५१५-'कृतं सर्वं यथोद्दिष्टं, कर्तुं वह्नि-जल-क्रियाम् ॥ प्रयतेथा महाराज! सह सर्वैः स्व-बन्धुभिः ॥१५॥ कृतमित्यादि-यथोद्दिष्टं यथाविहितं सर्वमस्माभिः कृतं । त्वमिदानी भ्रातुर्ष. ह्निक्रियां जलक्रियां च कतुं स्वबन्धुभिः सर्वैः सह प्रयतेथाः । प्रार्थनायां लिङ् ॥ १५१६-अज्ञ-वन् नौत्सहेथास् त्वं, धेया धीर-त्वम-च्युतम्, ॥ स्थेयाः कार्येषु बन्धूनां, हेयाः शोकोद्भवं तमः ॥ १६ ॥ अज्ञवदित्यादि-शोकादप्रवर्तमानं पुनराहुः । अज्ञवत् किं नोत्सहेथाः किमवसीदसि गर्हितमेतत् । '२८०१किं-वृत्ते लिङ्लटौ ।३।४।१४।' इति गर्हायां लिङ् । इयं चास्माकमाशंसा । यत्तु धीरत्वं धैर्य अच्युतं [ अक्षतं ] धेयाः धास्यसि । बन्धूनां च कार्ये स्थेयाः स्थास्यसि । शोकोद्भवं च तमो हेया. स्त्यक्ष्यसि । सर्वनाशिषि लिङ् । आर्धधातुकत्वात् '२३७४। एलिङि ।६।४।६७।' इत्यसंयोगादेरेत्वम् ॥ १५१७-नाऽवकल्प्यमिदं, ग्लायेद् यत् कृच्छ्रेषु भवानपि ॥ न पृथग्-जन-वज् जातु प्रमुह्येत् पण्डितो जनः. १७ नावकल्प्यमित्यादि-अन्यच्च नावकल्प्यमिदं न सम्भाव्यमेतत् येन कृच्छ्रेषु दुःखेषु भवानपि ग्लायेत् ग्लानिं याति । भनवक्लुप्तौ असम्भावनायां '२८०२। अनवक्लस्यमर्षयोः-३।३।१४५।' इत्यादिना लिङ् । सार्धधातुकत्वात् '२३७८॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514