Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 480
________________ तथा लक्ष्य-रूपे कथानके विभीषणाभिषेको'नामैकोनविंशतितमः सर्गः-४४७ याम दिना टेरयादेशः। द्विषतां च गणाः न्यञ्चन्तः नीचैरञ्चन्तः कृताः तिरस्कृताः। तथा नोऽस्माकं कुले अन्येनाधिक्रियेरंश्च । आशंसायां कर्मणि लिङ् । कृषीरनिति वा पाठः । आशिषि कर्मणि लिङ्॥ १५०४-स एव धारयेत् प्राणानीदृशे बन्धु-विप्लवे, ॥ भवेदश्विासको यस्य सुहृच्छत्तो भवादृशः. ॥ ४ ॥ स एवेत्यादि-ईदृशे बन्धुविप्लवे बन्धुविनाशेऽपि स एव प्राणान् धारयेत् नियोगतो बिभृयात् । निमन्त्रणे नियोगकरणे लिङ् । यस्य भवादृशः सुहृन्मित्रं शक्त आश्वासकः सान्स्वयिता भवेत् । सम्भावनायां लिङ् ॥ १५०५-म्रियेयोर्ध्व मुहूर्ताद्धि, न स्यास् त्वं यदि मे गतिः,॥ आशंसा च हि नः, प्रेते जीवेम-दशमूर्धनि.॥५॥ म्रियेयेत्यादि-यदि मे मम गतिः शरणं त्वं न स्याः न भवेः । लिङ् । तदा यस्मिन्मुहूर्ते रावणोऽपि नष्टः तस्मान्मुहूर्तादूर्ध्व म्रियेय । नियोगतः प्राप्तकालः । प्राणांस्त्यक्तवानहम् । अत्र प्राप्तकाले गम्यमाने '२८१८। लिङ् चोर्ध्वमौहूर्तिके ।३।३।१६४।' इति लिङ् । तत्र हि प्रैषादयोऽनुवर्तन्ते । '२५३८॥ म्रियतेललिडोश्च ।।३।६।' इति तङ् । ततः सार्वधातुकत्वात् शः। हि यस्मानोऽस्माकं नेयमाशंसा । यद्दशमूर्धनि दशानने प्रेते मृते त्वयि वा ऽशरणे जीवेम प्राणान् धारयिष्याम इति । अत्राशंसावचनस्योपपदत्वात् लिङ् ॥ १५०६-प्रकुर्याम वयं देशे गह्या तत्र कथं रतिम् , ॥ यत्र विंशति-हस्तस्य न सोदर्यस्य सम्भवः' ॥ ६ ॥ प्रकुर्यामेत्यादि-यत्र देशे सोदयस्य भ्रातुविशतिहस्तस्य न सम्भवोऽस्ति तत्र कथं वयं गया निन्द्यां रतिं प्रकुर्याम करिष्यामः । नैवेत्यर्थः । अत्र गर्दायामित्यधिकृत्य '२८००। विभाषा कथमि लिङ् च ।३।३।१४३।' इति कथ. मित्युपपदे भविष्यति लिङ् ॥ १५०७-आमन्त्रयेत तान् प्रह्वान् मन्त्रिणोऽथ विभीषणः-॥ 'गच्छेत त्वरितं लङ्का, राज-वेश्म विशेत च. ॥ ७ ॥ आमन्त्रयेतेत्यादि-अथानन्तरं विभीषणः सदसि यैर्मत्रिभिः सह उत्थितः तान्मत्रिणः प्रहानामन्त्रयेत कर्मसु नियोगतः संहितवानित्यर्थः । निमन्त्रणे नियोगकरणे लिङ् । तदेव दर्शयति । लङ्कां त्वरितं यूयं गच्छेत यात । गताश्च राजवेश्म विशेत च । अत्र विधौ प्रेषणे लिङ् । स हि सर्वलकाराणामपवादः ॥ १५०८-आददीध्वं महाऽर्हाणि तत्र वासांसि स-त्वराः ॥ उडुनीयात सत्-केतून, निहरेताऽग्य-चन्दनम् ॥८॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514