________________
तथा लक्ष्य-रूपे कथानके विभीषणाभिषेको'नामैकोनविंशतितमः सर्गः-४४७
याम
दिना टेरयादेशः। द्विषतां च गणाः न्यञ्चन्तः नीचैरञ्चन्तः कृताः तिरस्कृताः। तथा नोऽस्माकं कुले अन्येनाधिक्रियेरंश्च । आशंसायां कर्मणि लिङ् । कृषीरनिति वा पाठः । आशिषि कर्मणि लिङ्॥ १५०४-स एव धारयेत् प्राणानीदृशे बन्धु-विप्लवे, ॥
भवेदश्विासको यस्य सुहृच्छत्तो भवादृशः. ॥ ४ ॥ स एवेत्यादि-ईदृशे बन्धुविप्लवे बन्धुविनाशेऽपि स एव प्राणान् धारयेत् नियोगतो बिभृयात् । निमन्त्रणे नियोगकरणे लिङ् । यस्य भवादृशः सुहृन्मित्रं शक्त आश्वासकः सान्स्वयिता भवेत् । सम्भावनायां लिङ् ॥ १५०५-म्रियेयोर्ध्व मुहूर्ताद्धि, न स्यास् त्वं यदि मे गतिः,॥
आशंसा च हि नः, प्रेते जीवेम-दशमूर्धनि.॥५॥ म्रियेयेत्यादि-यदि मे मम गतिः शरणं त्वं न स्याः न भवेः । लिङ् । तदा यस्मिन्मुहूर्ते रावणोऽपि नष्टः तस्मान्मुहूर्तादूर्ध्व म्रियेय । नियोगतः प्राप्तकालः । प्राणांस्त्यक्तवानहम् । अत्र प्राप्तकाले गम्यमाने '२८१८। लिङ् चोर्ध्वमौहूर्तिके ।३।३।१६४।' इति लिङ् । तत्र हि प्रैषादयोऽनुवर्तन्ते । '२५३८॥ म्रियतेललिडोश्च ।।३।६।' इति तङ् । ततः सार्वधातुकत्वात् शः। हि यस्मानोऽस्माकं नेयमाशंसा । यद्दशमूर्धनि दशानने प्रेते मृते त्वयि वा ऽशरणे जीवेम प्राणान् धारयिष्याम इति । अत्राशंसावचनस्योपपदत्वात् लिङ् ॥ १५०६-प्रकुर्याम वयं देशे गह्या तत्र कथं रतिम् , ॥
यत्र विंशति-हस्तस्य न सोदर्यस्य सम्भवः' ॥ ६ ॥ प्रकुर्यामेत्यादि-यत्र देशे सोदयस्य भ्रातुविशतिहस्तस्य न सम्भवोऽस्ति तत्र कथं वयं गया निन्द्यां रतिं प्रकुर्याम करिष्यामः । नैवेत्यर्थः । अत्र गर्दायामित्यधिकृत्य '२८००। विभाषा कथमि लिङ् च ।३।३।१४३।' इति कथ. मित्युपपदे भविष्यति लिङ् ॥ १५०७-आमन्त्रयेत तान् प्रह्वान्
मन्त्रिणोऽथ विभीषणः-॥ 'गच्छेत त्वरितं लङ्का,
राज-वेश्म विशेत च. ॥ ७ ॥ आमन्त्रयेतेत्यादि-अथानन्तरं विभीषणः सदसि यैर्मत्रिभिः सह उत्थितः तान्मत्रिणः प्रहानामन्त्रयेत कर्मसु नियोगतः संहितवानित्यर्थः । निमन्त्रणे नियोगकरणे लिङ् । तदेव दर्शयति । लङ्कां त्वरितं यूयं गच्छेत यात । गताश्च राजवेश्म विशेत च । अत्र विधौ प्रेषणे लिङ् । स हि सर्वलकाराणामपवादः ॥ १५०८-आददीध्वं महाऽर्हाणि तत्र वासांसि स-त्वराः ॥
उडुनीयात सत्-केतून, निहरेताऽग्य-चन्दनम् ॥८॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com