________________
४४८ भट्टिकाव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे षष्टो वर्गः,
आददीध्वमित्यादि-तत्र राजवेश्मनि वासांसि महार्हाणि महामूल्यानि सत्वरा आददीध्वं गृह्णीत । '२४८३। नाभ्यस्तयोरातः ।६।४।११२।' इत्याकारलोपः । सत्केतून शोभनध्वजान् उद्धुनीयात ऊवीकरिष्यथ । '२५५८॥ प्वादीनां हस्वः ।७।३।८०' । २४९७। ई हल्यघोः ।६।४।११३।' अग्यचन्दनं सच्चन्दनका. ठानि निर्हरेत निर्गमयत ॥ १५०९-मुञ्चेताऽऽकाश-धूपांच, ग्रश्नीयात स्रजः शुभाः, ॥
आनयेता ऽमितं दारु कर्पूराऽगुरु-कुङ्कुमम् ॥९॥ मुञ्चेतेत्यादि-धूपघटिकाभिराकाशधूपांश्च मुञ्चेत प्रवर्तयेत् । नजः पुष्पमालाः शुभाः प्रश्नीयात गुम्फिष्यथ । '१६१० । श्रन्थ ग्रन्थ सन्दर्भ' इति लिङ् । पुषादिप्रयोगश्च ॥ १५१०-उद्येरन् यज्ञ-पात्राणि,
हियेत च विभावसुः, ॥ भ्रियेत चाऽऽज्यमृत्विग्भिः,
कल्प्येत च समित्-कुशम्. ॥१०॥ उोरनित्यादि-यज्ञपात्राणि जुगादीनि उह्येरन् आनीयन्ताम् । विभाव. सुश्वाग्निः हियेत । ऋत्विग्भिः आज्यमपि भ्रियेत । समित्कुशं कल्प्येत च कल्प्यम् । सर्वत्र विधौ कर्मणि लिङ् ॥ १५११-स्नानीयैः स्नापयेताऽऽशु, रम्यैर् लिम्पेत वर्णकः, ॥
अलङ्कुर्यात रत्नैश्चरावणाऽहैर दशाऽऽननम्॥११॥ नानीयरित्यादि-यथा स्वविहितं च कृत्वा रम्यैः स्नानीयैर्दशाननं राक्षसाधिपं स्नापयेत नापयिष्यथ । 'ग्लास्त्रावनुवमा च' इति विकल्पेन मित्वम् । तत्र 'ज्वल-ह्वल नमामनुपसर्गाद्वा' इति वाग्रहणमनुवर्तते । वर्णकैश्चन्दनादिभिः रम्यैलिम्पेत विलेप्स्यथ । रनैश्च रावणानित्यनैमित्तिकैरलंकुर्यात अलंकरिष्यथ ।। १५१२-वासयेत सु-वासोभ्यां
मेध्याभ्यां राक्षसाऽऽधिपम् , ॥ ऋत्विक् स्रग्विणमादध्यात्
प्राङ्-मूर्धानं मृगाऽजिने. ॥ १२ ॥ वासयेतेत्यादि-सुवासोभ्यां मेध्याभ्यां पूनाभ्यां वासयेत च आच्छाद. यिष्यथ । ऋत्विक् यज्वा स्रग्विणं कृत्वा मालाभूषितं कृत्वा मृगाजिने प्राङ्मू
(नं प्राच्यां मूर्धा यस्य पूर्वशिरसमादध्यात् स्थापयेत् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com