Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 479
________________ ४४६ भट्टिकाव्ये - चतुर्थे तिङन्तकाण्डे लक्षण-रूपे षष्ठो वर्गः, धुर्ये धुरं वहति विपन्ने विनष्टे सति हे क्षणदाचरेन्द्र ! राज्यभारः अनूढः भभ्यैरधिष्ठितः सन् मज्जति अधो याति शत्रुभिर्विनश्यति । तस्मात् त्वया समाहितेन राज्यभारो वोढव्य इति ॥ इति श्री - जयमङ्गलाSSख्यया व्याख्यया समलंकृते श्री भट्टिकाव्येचतुर्थे तिङन्तकाण्डे लक्षण-रूपे पञ्चमः परिच्छेदः ( वर्गः ) तथा लक्ष्य-रूपे कथानके 'विभीषण- प्रलापो' नाम अष्टादशः सर्गः ॥ १८ ॥ ऊनविंशः सर्गः - 1 इतः प्रभृति लिङमधिकृत्य विलसितमाह -- तत्र विध्यादिषु लिङ् । ततोऽन्यत्रापि दर्शयिष्यति - १५०१ - अप - मन्युस् ततो वाक्यं पौलस्त्यो राममुक्तवान्- ॥ 'अ-शोच्योऽपि व्रजन्नस्तं सनाभिर् दुनुयान् न किमू. १ अपमन्युरित्यादि - ततोऽनन्तरं पौलस्त्यो विभीषणः अपमन्युः अपगतो मन्युर्यस्य । प्रादिभ्यो धातुजस्य बहुव्रीहिर्वा चोत्तरपदलोपश्च । रामं वाक्यमुक्तवान् । देव ! किमेवमभिधत्से अशोच्य इति । यतः सनाभिः सगोत्रोऽस्तं व्रजन् विनाशं गच्छन्नशोच्योऽपि सन् किं न दुनुयाद्वियोगेन अवश्यतया किं नोपतापयेत् । निमन्त्रणे नियोगकरणे लिङ् ॥ १५०२ - तं नो देवा विधेयासुर् येन रावण वद् वयम् ॥ सपत्नांश् चा ऽधिजीयास्म, संग्रामे च मृषीमहि . २ तं न इत्यादि - युष्मद्वचनादात्मा मया स्थिरीकृतः किन्त्विदमाशंसे । तमुपायं नोऽस्माकं देवा विधेयासुः । '२३६२ । घु-मा-स्था - १६।४।६६ । ' इत्यनुवृत्तौ ' २३७४ | एर्लिङि | ६ |४| ६७ |' इत्येकारादेशः । येनोपायेन रावणवत् सपत्नान् वयमधिजीयास्म । 'उपसर्गेण धात्वर्थो बलादन्यः प्रतीयते' इति सकर्मकता । संग्रामे च मृषीमहि । लिङश्चेति लिङः कित्त्वान्न गुणः । भार्धधातुकवान्न सलोपः । सर्वत्रैवाशिषि लिङ् ॥ १५०३ - क्रियेरंश् च दशाऽऽस्येन यथा ऽन्येना ऽपि नः कुले ॥ देवद्यञ्चो नराहारा न्यञ्चचं द्विषतां गणाः ॥ ३ ॥ क्रियेरन्नित्यादि - यथा दशास्येन नराहारा राक्षसाः देववचः देवैः सहाजन्तो गच्छन्तः क्रियेरन् कृताः । '४१८ | विष्वग्देवयोश्च - २६|३|१२|' इत्या Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514