Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji
View full book text
________________
तथा लक्ष्य रूपे कथानके 'सीता-प्रत्याख्यानं' नाम विंशतितमः सर्गः-४५९
यथेष्टमित्यादि-यथेष्टं चर यथेष्टचारिणी भव । विधौ लोट् । तत्र च यथेष्टं चरन्त्याः पन्थानो मार्गाः शिवा निर्विघ्नाः सन्तु भूयासुः । आशिषि लोद । किं च कामाः अभिलाषास्तवान्यत्र तायन्तां स्फीता भवन्तु । भत्रा. प्याशिषि । यथेष्टचारित्याकिमयं करिष्यतीति मद्गतां विशङ्का भयं त्यज त्यक्ष्य. सि । विधौ लोट् ॥ १५५६-ततः प्रगदिता वाक्यं मैथिलाऽभिजना नृपम् ॥
'स्त्रीसामान्येन सम्भूता शङ्का मयि विमुच्यताम्. २६ तत इत्यादि-ततस्तद्वचनानन्तरं मैथिलाभिजना सीता नृपं वाक्यं प्रगदिता गदितुं प्रवृत्ता । '३०५३। आदिकर्मणि क्तः-३।४७१।' स्त्रीसामान्येन स्त्रीति कृत्वा या तव मयि शङ्का इयं सती न वेति सा विमुच्यताम् । मिथ्यास्वात् । प्रार्थनायां लोट् ॥ १५५७-दैवाद् विभीहि काकुत्स्थ !.
जिहीहि त्वं तथा जनात, ॥ मिथ्या मामभिसंक्रुध्य
न्न-वशां शत्रुणा हृताम्. ॥२७॥ दैवादित्यादि-अन्यच्च हे काकुत्स्थ राम! अवशां पराधीनां शत्रुणा हृताम् । मिथ्या अभिसंक्रुध्यन् अलीकेन । '५७६। क्रुध दुहोरुपसृष्टयोः कर्म १॥॥३८॥' इति कर्मसंज्ञा । दैवात् अनिष्टफलात् विभीहि भयं जनय भीतो भव । हेरपित्त्वारिकत्वे गुणो न भवति । इतश्च जनादिमं जनं वीक्ष्य जिहीहि लजस्व । ल्यब्लोपे पञ्चमी । विधौ लोद ॥
त्वग्यसंक्रान्तायां मम कीदृशं भयं लज्जा चेति चेत्तदाह१५५८-चेतसस् त्वयि वृत्तिर् मे, शरीरं रक्षसा हृतम्, ॥
विदांकुर्वन्तु सम्यञ्चो देवाः सत्यमिदं वचः ॥२८॥ चेतस इत्यादि-मे चेतसो वृत्तिरात्मव्यापारः त्वयि तिष्ठति अनन्यमनस्करवात् । रक्षसा हृताया मम न सर्व हृतं अपि तु शरीरं हृतम् । नैवेदं मिथ्या । तथाहि हे महाभूताधिष्ठानाः सम्यञ्चः । सर्वत्र वर्तमानाः अञ्चन्तीति कि । अञ्चतावप्रत्यये '४२१॥ समः समि ।६।३।९३।' इति सम्यादेशः । एते मर्थिताः मम वचः सत्यं विदांकुर्वन्तु अवगच्छन्तु । प्रार्थनायां लोट् । विदांकुर्वन्त्विति निपातनम् ॥
प्रत्येकं प्रार्थनामाह१५५९-त्वं पुनीहि पुनीहीति पुनन् वायो ! जगत्-त्रयम् ॥
चरन देहेषु भूतानां विद्धि मे बुद्धि-विप्लवम्. ॥२९॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514