________________
तथा लक्ष्य-रूपे कथानके 'सीता-प्रत्याख्यानं' नाम विंशतितमः सर्गः-४५३ १५३०-मन्यु वध्या भट-वध-कृतं बाल-वृद्धस्य राजन् !,
शास्त्राऽभिज्ञाः सदसि सु-धियः सन्निधिं ते क्रियासुः, संरंसीष्ठाः सुर-मुनि-गते वर्मनि प्राज्य-धर्मे,
संभुत्सीष्ठाः सु-नय-नयनर विद्विषामीहितानि.' ३० इति भट्टिकाव्ये तिङन्त-काण्डे लिङ्-विलसितो
नामैकोनविंशति-तमः सर्गः ॥ मन्युमित्यादि-अन्यच्च हे राजन् ! बालानां वृद्धानां च । सर्वो द्वन्द्वो विभाफैकवद्भवतीति बालाश्च वृद्धाश्च बालवृद्धम् । तस्य मन्यु शोकम् । भटवधकृतं भटानां पितृपुत्रादीनां च यो वधः तस्कृतम् । वध्याः प्रियवचनार्थप्रदानादिमिरपनेष्यसि । शास्त्रार्थज्ञाः शास्त्रार्थकुशलाः ते तव सदसि सभायां सन्निधिं क्रियासुः । सन्निहिता भवन्त्वित्यर्थः । सुरैर्मुनिभिश्च गते सेविते वर्मनि मार्ग प्राज्यधर्मे भूरिपुण्ये संरंसीष्ठाः रंस्यसे । द्विषां शत्रूणां ईहितानि चेष्टितानि सुनयनयनैः शोभनाः ये नयाः तैरेव नयनैश्चक्षुभिरिवावस्थितैः सम्भुत्सीष्ठाः जानीयाः ज्ञास्यसि । 'बुध अवगमने' एकाचो बशो भष् ॥ इति श्री-जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री-भट्टिकाव्ये
चतुर्थे तिङन्त-काण्डे लक्षण-रूपे षष्ठः परिच्छेदः (वर्गः), तथा लक्ष्य-रूपे कथानके 'विभीषणाभिषेको नाम
एकोनविंशतितमः सर्गः ॥ १९ ॥
विंशः सर्गः। इतः प्रभृति लोटमधिकृत्य तद्विलसितमाह-तत्र 'लोट् च' इति वचनाद्विध्यादिष्वर्थेषु लोट् । ततोऽन्यत्रापि दर्शयिष्यति१५३१-समुपेत्य ततः सीतामुक्तवान् पवनाऽऽत्मजः- ॥
दिल्या वर्धस्व वैदेहि ! हतस् त्रैलोक्य-कण्टकः॥१॥ समुपेत्येत्यादि-ततोऽनन्तरं पवनात्मजः रामाज्ञया सीतां समुपेत्य समुपागम्योक्तवान् । हे वैदेहि ! रावणस्त्रैलोक्यस्य प्रतोदकत्वात् कण्टको हतस्तेन दिष्ट्या प्रियवचनेन वर्धस्व नियोगतो वय॑सीति । निमन्त्रणे लोट् ॥ १५३२-अनुजानीहि हन्यन्तां मयैताः क्षुद्र-मानसाः ॥
रक्षिकास् तव राक्षस्यो, गृहाणैतासु मत्सरम्. ॥२॥ अनुजानीहीत्यादि-अनुजानीहि अनुज्ञां प्रयच्छ । प्रार्थनायां लोट् । येन मयता राक्षस्यस्तव रक्षिकाः क्षुदमानसाः पापाशयाः हन्यन्तां विनाश्यन्ताम् । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com