________________
४५४ भट्टिकाव्ये - चतुर्थे तिङन्तकाण्डे लक्षण- रूपे सप्तमो वर्गः,
भत्र विधौ कर्मणि लोट् । तस्मादेतासु मत्सरं गृहाण जनय । प्रार्थनायां लोट् । येन गृहीतक्रोधा मामनुज्ञास्यसि ॥
१५३३ - तृणहानि दुराऽऽचारघोर रूपाऽऽशय - क्रियाः, ॥ हिंस्रा भवतु ते बुद्धिरेतासु, कुरु निष्ठुरम् ॥ ३ ॥
दुराचाराः घोररूपाशयक्रियाः क्रूराणि आकाराभिप्रायानुष्ठानानि यासां तास्तृणहानि हनिष्यामि । तदेतासु हिंसा हिंसनशीला तव बुद्धिर्भवतु | निष्ठुरं च नैष्ठुर्य कुरु । भावप्रधानो निर्देशः ॥ १५३४ - पश्चिमं करवामैतत् प्रियं देवि ! वयं तव, ॥'
-
ततः प्रोक्तवती सीता वानरं करुणाऽऽशया ॥ ४ ॥ पश्चिममित्यादि - हे देवि ! किमत्र विचारितेन तव पश्चिममन्त्यं प्रियं एतद्वयं करवाम करिष्यामः । अस्मद एकत्वे बहुवचनमन्यतरस्याम् । ततोऽनन्तरं सीता करुणाशया सती वानरं प्रोक्तवती ॥
१५३५ - ' उपशाम्यतु, ते बुद्धिः पिण्ड - निर्वेश - कारिषु ॥
लघु-सत्वेषु, दोषोऽयं यत्- कृतो - निहतो ऽसकौ ॥५॥
उपेत्यादि - लघुसत्वेषु स्त्रीजनेषु पिण्डनिर्वेशकारिषु पिण्डस्य ग्रासस्य निशो निष्क्रयः तत्कारिषु ते बुद्धिरुपशाम्यतु सकरुणा भवतु । सर्वत्र विधौ लोट् । किमिति चेत् । यत्कृतो यज्जनितोऽयं दोषः ममैताभिः कृतः । असकौ भसौ रावणो निहतो व्यापादितः । कुत्सायाम् ' २०२६ । अव्यय सर्वनाम्नामकच् प्राक् टेः |५|३|७१।' इति भकच् ॥
१५३६ - न हि प्रेष्य - वधं घोरं करवाण्युस्तु ते मतिः, ॥
एधि कार्य - रस् त्वं मे गत्वा प्रवद राघवम्. ॥६॥
नहीत्यादि -- अन्यच्च न हि नैव घोरं प्रेप्यवधं करवाणि करिष्यामीतीत्थम् मतिस्तवाप्यस्तु । ‘२१९५| आशिषि लिङ्लोटौ | ३ | ३|१७३ | ' इति लोट् । भतस्त्वं कार्यकरः कार्यकरणे अनुकूलः । आनुलोम्ये टः । एधि भव । ' २४६९ । सोरलोपः | ६|४|१११।' । '२४७१ । ध्वसोरेद्धावभ्यासलोपश्च | ६ |४| ११९ ॥' | एत्वस्य समानाश्रयत्वादसिद्धत्वे । '२४२५ | हुझलभ्यो हेर्धिः | ६|४|१०११' कार्यमाह । गत्वा प्रवद राघवं ममादेशाद् ब्रूहि ॥
किं मया वक्तव्यमिति चेत्तदाह
१५३७ - 'दिदृक्षुर् मैथिली राम ! पश्यतु त्वाऽविलम्बितम्'. तथेति स प्रतिज्ञाय गत्वा राघवमुक्तवान् ॥ ७ ॥ दिदृक्षुरित्यादि - हे राम ! द्रष्टुमिच्छुमैथिली सीता भविलम्बितं दुतं
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com