Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji
View full book text
________________
तथा लक्ष्य-रूपे कथानके 'विभीषणा-प्रलापो' नामाष्टादशः सर्गः- ४४३
नेदानीमित्यादि-इदानी स्वय्येवंभूते शक-यक्षेन्द्रौ न बिभीतः न भयं कुरुतः । २४९२। भियोऽन्यतरस्याम् ।६।४।११५।' इति इत्वाभावपक्षे रूपम् । न दरिद्वितः दरिद्रौ न भवतः । २४४२। इद्दरिद्रस्य ।६।४।११४।' इति हलादौ कृिति सार्वधातुक इत् । सौ न गवै जहितः परित्यजतः । २४९८॥ जहातेश्व ।६।४।११६।' इतीस्वम् । न क्लिनीतः के नानुभवतः । २४९७। ई हल्यघोः ।६।१११३।' इतीत्वम् ॥ १४९०-त्वया ऽपि नाम रहिताः
कार्याणि तनुमो वयम् , ॥ कुर्मश् च जीविते बुद्धि,
धिक् तृष्णां कृत-नाशिनीम् ॥ ३२ ॥ त्वयेत्यादि-यद्वयं त्वया विना कार्याणि राज्याङ्गानि तनुमः प्रसारयिप्यामः । जीविते च बुद्धिं कुर्मः । तदिमां कार्ये जीविते च तृष्णां कृतनाशिनी धिक् । २७९९। गौंयां लड़पि-जात्वोः ।३।३।१४।' इति भविष्यति लट् ॥ १४९१-तृणेमि देहात्मीयं,
त्वं वाचं न ददासि चेत्, ॥ द्राघयन्ति हि मे शोकं
स्मयमाणा गुणास तव. ॥३३॥ तृणेहीत्यादि-मम प्रतिवचनं न ददासि चेत् यदि त्वं तर्हि आत्मीयं देहं तृणेसि हन्मि । '२५४५। तृणह इम् ।७।३।१२।' । हि यस्मात् मर्यमाणास्तव गुणाः मम शोकं द्वाघयन्ति दीर्घ कुर्वन्ति । णाविष्ठवद्भावेन '२०१६। प्रिय-स्थिर-६।४।१५७।' इत्यादिना दीर्घशब्दस्य द्राधादेशः ॥ १४९२-उन्मुच्य स्रजमात्मीयां
मां नजयति को हसन् , ॥ नेदयत्यासनं को मे,
को हि मे वदति प्रियम्. ॥ ३४ ॥ उन्मुच्येत्यादि-भात्मीयां नजं मालामुन्मुच्यापनीय देहात् हसन् परितोषात् को मां स्त्रजयति स्रग्विणं करोति । णाविष्ठवभावात् २०२०। विन्मतो. लक् ।५।३।६५।' इति विनो लुक् । '२०१०। प्रकृत्यैकाचू ।६।४।१६३॥' इति टिलोपाभावः । को वा.ममासनं नेदयति अन्तिकं करोति । अत्रापि णौ इष्टवभावात् '२०२४। अन्तिकबाढयोर्नेदसाधौ ।५।३।१३।' इति अन्तिकशब्दस्य नेदादेशः । कर्हि कदा को मे प्रियं पदति वदिष्यति । '२७८४। विभाषा कदा'कोः ।३।३।५।' इति भविष्यति लट् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514