SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ तथा लक्ष्य-रूपे कथानके 'विभीषणा-प्रलापो' नामाष्टादशः सर्गः- ४४३ नेदानीमित्यादि-इदानी स्वय्येवंभूते शक-यक्षेन्द्रौ न बिभीतः न भयं कुरुतः । २४९२। भियोऽन्यतरस्याम् ।६।४।११५।' इति इत्वाभावपक्षे रूपम् । न दरिद्वितः दरिद्रौ न भवतः । २४४२। इद्दरिद्रस्य ।६।४।११४।' इति हलादौ कृिति सार्वधातुक इत् । सौ न गवै जहितः परित्यजतः । २४९८॥ जहातेश्व ।६।४।११६।' इतीस्वम् । न क्लिनीतः के नानुभवतः । २४९७। ई हल्यघोः ।६।१११३।' इतीत्वम् ॥ १४९०-त्वया ऽपि नाम रहिताः कार्याणि तनुमो वयम् , ॥ कुर्मश् च जीविते बुद्धि, धिक् तृष्णां कृत-नाशिनीम् ॥ ३२ ॥ त्वयेत्यादि-यद्वयं त्वया विना कार्याणि राज्याङ्गानि तनुमः प्रसारयिप्यामः । जीविते च बुद्धिं कुर्मः । तदिमां कार्ये जीविते च तृष्णां कृतनाशिनी धिक् । २७९९। गौंयां लड़पि-जात्वोः ।३।३।१४।' इति भविष्यति लट् ॥ १४९१-तृणेमि देहात्मीयं, त्वं वाचं न ददासि चेत्, ॥ द्राघयन्ति हि मे शोकं स्मयमाणा गुणास तव. ॥३३॥ तृणेहीत्यादि-मम प्रतिवचनं न ददासि चेत् यदि त्वं तर्हि आत्मीयं देहं तृणेसि हन्मि । '२५४५। तृणह इम् ।७।३।१२।' । हि यस्मात् मर्यमाणास्तव गुणाः मम शोकं द्वाघयन्ति दीर्घ कुर्वन्ति । णाविष्ठवद्भावेन '२०१६। प्रिय-स्थिर-६।४।१५७।' इत्यादिना दीर्घशब्दस्य द्राधादेशः ॥ १४९२-उन्मुच्य स्रजमात्मीयां मां नजयति को हसन् , ॥ नेदयत्यासनं को मे, को हि मे वदति प्रियम्. ॥ ३४ ॥ उन्मुच्येत्यादि-भात्मीयां नजं मालामुन्मुच्यापनीय देहात् हसन् परितोषात् को मां स्त्रजयति स्रग्विणं करोति । णाविष्ठवभावात् २०२०। विन्मतो. लक् ।५।३।६५।' इति विनो लुक् । '२०१०। प्रकृत्यैकाचू ।६।४।१६३॥' इति टिलोपाभावः । को वा.ममासनं नेदयति अन्तिकं करोति । अत्रापि णौ इष्टवभावात् '२०२४। अन्तिकबाढयोर्नेदसाधौ ।५।३।१३।' इति अन्तिकशब्दस्य नेदादेशः । कर्हि कदा को मे प्रियं पदति वदिष्यति । '२७८४। विभाषा कदा'कोः ।३।३।५।' इति भविष्यति लट् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy