________________
४४२ भट्टिकाव्ये-चतुर्थे तिडन्त-काण्डे लक्षण-रूपे पञ्चमो वर्गः, त्यजन्ति । विपद्गतं च त्वां हंसन्ति । क्षुद्राः अल्पकायाः क्षोदयन्तीव शुदिमिवाचक्षत इति । भुवने यो हि न्यकृतत्रिलोकः स कथं क्षुद्र उच्यते । २०१५॥ स्थूल-दूर-६४।१५६।' इत्यादिना णौ यणादिपरलोपः पूर्वस्य च गुणः ॥ १४८५-शमं शमं नभस्वन्तः पुनन्ति परितो जगत् , ॥
उजिहीषे महाराज! त्वं प्रशान्तों न किं पुनः ॥२७॥ शममित्यादि-नभस्वन्तो वायवः शमं शमं भान्स्वा शान्त्वा । '३३४३। भाभीक्ष्ण्ये णमुल ३।४।२२।' । '२७६३३ नोदात्त-१३॥३४॥' इति वृद्धिप्रतिषेधः । आभीक्ष्ण्ये द्वे भवतः । परितः सर्वतो जगत् पुनन्ति पवित्रयन्ति । प्रशान्ता अपि पुनर्भूत्वा जगत् पुनन्ति । है महाराज ! त्वं पुनः प्रशान्तोऽपि किं नोजिहीये नोत्तिष्ठसि । 'ओहाङ् गौ' इत्यभ्यासस्य '३४९६३ भृनामित् P७६' । २४९७ ई हत्यघोः-६॥१॥१३॥' इतीत्वम् ॥ १४८६-प्रोोति शोकस् चित्तं मे,
सत्वं संशाम्यतीव में, ॥ प्रमार्टि दुःखमालोकं,
मुञ्चाम्यूर्ज त्वया विना. ॥ २८ ॥ प्रोणतीत्यादि-हे महाराज ! त्वया विना शोको मम चित्तं प्रोर्णोति आच्छादयति । सत्वं अवष्टम्भः संशाम्यतीव अपगच्छतीव । मां त्यजतीत्यर्थः । दुःखं च कर्तृ आलोकं प्रज्ञानं प्रमार्टि अपनयति । अतस्त्वया विना उर्ज बलं मुञ्चामि । अलसो भवामीत्यर्थः । १४८७-केन संविद्रते-नाऽन्यस् त्वत्तो बान्धव-वत्सलः, ॥
विरौमि शून्ये, प्रोौमि कथं मन्यु-समुद्भवम् ॥२९॥ नेत्यादि-वत्तोऽन्यो बान्धववत्सलो नेति के न संविद्रते न जानते । २६९९। समो गमि-1१।३।२९।' इति तङ् । '२७०१ । वेत्तेर्विभाषा IMAGE इति रुट् । बन्धुरेव बान्धवः । प्रज्ञादित्वादण् । अतोऽहं शून्ये बन्धुविरहिते विरौमि फूरकरोमि । कथं केन प्रकारेण मन्युसमुद्भवं शोकोत्पादं प्रोणामि आच्छादयामि ॥ १४८८-रोदिम्यनाथमात्मानं बन्धुना रहितस् त्वया, ॥
प्रमाणं नौपकाराणामवगच्छामि यस्य ते ॥ ३० ॥ रोदिमीत्यादि-त्वया बन्धुना रहितत्वादनाथोऽस्मीति आत्मानमेव रोदिमि न स्वां कृतकार्यम् । यस्य ते उपकाराणां प्रमाणमियत्तां नावगच्छामि ॥ १४८९-नैदानी शक-यक्षेन्द्रौ बिभीतो, न दरिद्रितः॥
न गर्व जहितोदृप्तौ, न क्लिनीतो दशाऽऽनन! ॥३१॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com