________________
तथा लक्ष्य-रूपे कथानके 'विभीषण- प्रलापो' नामाष्टादशः सर्गः - ४४१
दंश-सञ्ज- स्वआं शपि |६|४|२५|' इत्यनुनासिकलोपः । हरिर्विष्णुः श्रियं गोपायति आत्मन्येव कृत्वा रक्षति । देववन्द्यः प्रमोदन्ते हृष्यन्ति । घनोदयाश्चित्रीयन्ते नानारूपेणाद्भुतायन्ते मृते त्वयीति सर्वत्र योज्यम् ॥
विशेषकम् २४, २५, २६—
१४८२ - बिभ्रत्य॑स्त्राणि सा॒ऽमर्षा
रण - काम्यन्ति चा ऽमराः, ॥ चकासति च, मांसादां तथा रन्ध्रेषु जाग्रति ॥ २४ ॥
I
बिभ्रतीत्यादि - भमराः सामर्षाः सकोपाः अस्त्राणि विभ्रति धारयन्ति । रणकाम्यन्ति च आत्मनो रणमिच्छन्ति । आत्मेच्छायां काम्यच् । चकासति च दीप्यन्ते च । जक्षित्यादित्वादभ्यस्तसंज्ञायां झेरदादेशः । तथा मांसादां राक्षसानाम् । '२९७७। अदोऽनन्ने | ३|२|६८|' इति विट् । रन्ध्रेषु व्यसनेषु जाग्रति सावधाना भवन्ति ॥
१४८३ - चञ्चूर्यते ऽभितो लङ्कामुस्मांश् चा ऽप्यतिशेरते, ॥ भूमयन्ति स्व-सामर्थ्य, कीर्ति नः कनयन्ति च ॥ २५ ॥
चचूर्यन्त इत्यादि - लङ्कामभितः बाह्यतोऽभ्यन्तरतश्च । '१९५६ । पर्यभिभ्यां च |५|३|९| ' इति सर्वोभयार्थे तसिः । चञ्चूर्यन्ते गर्हितं चरन्ति । '२६३५॥ लुप-सद - |३|१| २४|' इति भावगर्हायां यङ् । ' २६३६ । चर- फलोश्च
७/५/८७१' इत्यभ्यासस्य नुक् । ' २६३७ | उत्परस्यातः | ७|४|८८|' इत्युत्वम् । अस्मांश्चापि भतिशेरते अतिशयिता भवन्ति च । स्वसामर्थ्यं भूमयन्ति वर्धयन्ति । बहूनां भाव इति '१७८४ | पृथ्वादिभ्य इमनिच् | ५ | १|१२२|' | '२०१७ बहोर्लोपो भू च बहोः | ६ | ४ | १५८|' इति बहोर्भूरादेशः । इमनिजादिलोपश्च । भूमानं कुर्वन्तीति णिचि णाविष्ठवत्प्रातिपदिकस्येतीष्ठवद्भावात् टिलोपयणादिपरलोपः । विन्मतोर्लुगर्थमिति वचनाद्वा टिलोपः । किंच नोऽस्माकं कीर्ति कनयन्ति अल्पां कुर्वन्ति । अमरा इति योज्यम् । अल्पां कुर्वन्तीति णिचि णाविष्ठ - वद्भावाद् '२०१९। युवा-रूपयोः कनन्यतरस्याम् |५|३ | ६४ |' इति कनादेशः ॥ १४८४ - दिशो व्यनुवते दृप्तास्
त्वत्- कृतां जहति स्थितिम् ॥
क्षोदयन्ति च नः क्षुद्रा,
हसन्ति त्वां विपद् - गतम्. ॥ २६ ॥
दिश इत्यादि - उप्ताः सन्तः दिशो व्यभुवते व्यामुवन्ति । स्थिति व्यवस्थां त्वत्कृताम् । ‘१३७३। प्रत्ययोत्तरपदयोश्च ॥७/२/९८|' इति खदादेशः । जहति
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com