________________
४४० भट्टिकाव्ये – चतुर्थे तिङन्तकाण्डे लक्षण रूपे पञ्चमो वर्गः,
|३|४|८३।' सिपस्थादेशः । अपरस्य ' ६४५० । ब्रुवः पञ्चानाम् - १३१४१८४|' इति तिपो णलादेशः । यद्यस्मात्त्वं क्रुद्धः सन् मां संसदि सभायां निराकृत्य पादप्रहारेण पुरा पूर्व त्यजसि त्यक्तवानसि '२७८२ । पुरि लुङ् चास्मे | ३ |२| १२२ ।' इति चकाराल्लद ||
१४७७ - हविर् जक्षिति निःशङ्को मखेषु मघवान॑सौ ॥
"
प्रवाति स्व॒च्छया वायुरु॑द्गच्छति च भास्करः. ॥१९॥
हविरित्यादि - असौ मघवान् इन्द्रः मखेषु यज्ञेषु हविराज्यादिकमधुना जक्षिति भक्षयति । '२४७४ | रुदादिभ्यः | ७|२|७६ । ' इतीट् । वायुश्च स्वेच्छया प्रवाति गच्छति । 'पवते' इति पाठान्तरं । पवित्रीकरोतीत्यर्थः । भास्करश्च यथेमुद्गच्छति उदेति ॥
1
•
१४७८ - धनानामीशते यक्षा, यमो दाम्यति राक्षसान् ॥ तनोति वरुणः पाशमि॑न्दु॒नदीयते ऽधुना ॥२०॥
1
I
धनानामित्यादि - यक्षाः कुबेरादयः धनानामीशते [ प्रभवन्ते ] | स्वाम्यं लभन्ते इत्यर्थः । '१०८९ । ईश ऐश्वर्ये' । यमोऽपि राक्षसान् दाम्यति वशीकरोति । वरुणः पाशं तनोति विस्तारयति । इन्दुनोदीयतेऽधुना । भावे लट् । अधुनेति सर्वत्र योज्यम् । अणुनेति पाठान्तरं असं पूर्णत्वात् ॥ १४७९ - शाम्यत्येतु-समाहारस्, तपस्यन्ति वनौकसः, ॥
नो नमस्यन्ति ते बन्धून्, वरिवस्यन्ति नाऽमराः २१ शाम्यतीत्यादि - ऋतूनां समाहारः सम्भूयावस्थानं शाम्यति अपैति । वनौकसो वनवासिनो मुनयः तपस्यन्ति तपश्चरन्ति । ' ६६६१ । कर्मणो रोमन्थ - |३|१|१५|' इत्यादिना क्यड् । तपसः परस्मैपदं च । ते त्वद्वन्धूनमरा नो नमस्यन्ति न प्रणमन्ति । न वरिवस्यन्ति । नाप्रतिषेधेन परिचरन्ति । ' २६७५ । नमो वरिवश्चित्रङः क्यच् | ३ | १|१९ |' ॥
१४८० - श्रीर् निष्कुष्यति लङ्कायां विरज्यन्ति समृद्धयः, ॥ न वेद तन्, न यस्याऽस्ति मृते त्वयि विपर्ययः. २२ श्रीरित्यादि - लङ्कायां पुर्यो अधुना श्रीर्निष्कुष्यति । 'कुष रोषे' । '२७७२ । कुषि - रजोः प्राचां श्यन् परस्मैपदं च | ३|१|९० |' समृद्धयश्च विरज्यन्ति अपयान्ति । सर्वथा तद्वस्तु न वेद न वेद्मि । '२४६४। विदो लटो वा | ३ | ४|८३ | ' इति मिपो जल | यस्य त्वयि मृते न विपर्ययः नान्यथाभावः ॥ १४८१ - शक्तिं संस्वजते शक्रो, गोपायति हरिः श्रियम् ॥
I
"
देव - वन्द्यः प्रमोदन्ते, चित्रीयन्ते, घनोदयाः ॥२३॥ शक्तिमित्यादि - शक्रः शक्तिं प्रहरणमधुना संस्वजते गृह्णाति । '२३९६ ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com