________________
तथा लक्ष्य-रूपे कथानके 'विभीषण-प्रलापो' नामाष्टादशः सर्ग:- ४३९ ।६।१८९॥ इति वृद्धिः । अभ्यमीति पाठान्तरं तदयुक्तं छान्दसत्वात् । यतः यमो बहुलं छन्दसि हलादावनन्तरे सार्वधातुके '२४४४॥ तु-रु-स्तु-शम्यमः सार्वधातुके ।।३।९५।' इतीद ॥ १४७३-त्वमजानन्निदं राजनीडिषे स्म स्व-विक्रमम् , ॥
दातुं नैच्छसि सीतां स्म, विषयाणां च नैशिषे. १५ त्वमित्यादि-हे राजन् ! त्वमिदं यथोदितमजानन् स्वविक्रममीडिषे स स्तुतवानसि । '२४४०। ईड-जनोत्रं च ७।२।७८।' इति चकारात् सेशब्दस्थापीट् । एवं च कृत्वा त्वं सीतां दातुं नेच्छसि स नेष्टवानसि । विषयाणां शब्दादीनां नेशिषे स विषयान जितवानसि । '२४३९। ईशः से ७।२।७७।' इतीद । '६१३। अधीगर्थ-१२।३।५२।' इति कर्मणि षष्ठी । सर्वत्र '२७७९। अपरोक्षे च ।३।२।११९।' इति लट् ॥ १४७४-मन्त्रे जातु वदन्त्यज्ञास् , त्वं तानप्यनुमन्यसे, ॥
कथं नाम भवांस्तत्र नाऽवैति हितमात्मनः॥१६॥ मन्त्र इत्यादि-मन्त्रविषये अपण्डिताः मूर्खाः सन्तः जातु कदाचिदपि वदन्ति गर्हितमेतत् । तानपि त्वमनुमन्यसे अनुमतवान् । इदमप्यतिगर्हितम् । '२७९९। गौंयां लडपिजात्वोः ।३।३।१४२।' इति अपिजात्वोरुपपदयोः कालसामान्ये लट् । कथमेतत् न्याय्यं यत्तत्र भवान् रावणः विद्वानपि नास्मनो हितमवैति न विदितवान् । '२०००। विभाषा कथमि लिङ् च ।३।३।१४३॥' इति कथंशन्द्र उपपदे चकारात् गायां लट् । तत्र भवानिति १९६३। इतराभ्योऽपि दृश्यन्ते ।५।३।१४।' इति भवदादियोगे प्रथमान्तात् त्रत्प्रत्ययः । १४७५-अ-पृष्टो नु ब्रवीति त्वां मन्त्रे मातामहो हितम्, ।।
'न करोमीति पौलस्त्य! तदा मोहात् त्वमुक्तवान्१७ अपृष्ट इत्यादि-किमस्मिन् काले युज्यत इति मन्त्रे मातामहो माल्यवान् अपृष्टः सन् हितं नु ब्रवीति । हे पौलस्त्य ! त्वं पुनर्हितमकार्षीरिति माल्यवता पृष्टं तदा तस्मिन् काले म करोमीति मोहादज्ञानादुक्तवान् । अत्र नुशब्दे नशब्दे चोपपदे । '२७८०। ननौ पृष्टप्रतिवचने ।३।२।१२०५' इति भूते धास्वर्थे '२७८१। नन्द्रोविधाणा ३॥२॥१२॥' इति विभाष लट् ॥ १४७६-त्वं स्म वेत्थ महाराज! यत् स्माऽऽहन विभीषणः॥
पुरा त्यजति यत् क्रुद्धो मां निराकृत्य संसदि.॥१८॥ त्वमित्यादि-हे महाराज ! विभीषणो यदाह स उक्तवान् तत्त्वं न वेत्थ सन विदितवानसि । किमेतेन हितमुक्तं न वेति । उभयत्र '२७७९। अप.
रोझेब ARARI' इति लः । तत्र पूर्वमिन '२४६ विवे को वा Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com