________________
४४४ भट्टिकाव्ये - चतुर्थे तिङन्तकाण्डे लक्षण-रूपे पञ्चमो वर्गः,
१४९३ - न गच्छामि पुरा लङ्कामा॑युर्यावद् दधाम्यहम् ॥
"
कदा भवति मे प्रीतिस्, त्वां पश्यामि न चेदहम् ॥ ३५ ॥
न गच्छामीत्यादि - यावदहमायुर्दधामि धारयिष्यामि । '२७८३ । यावत्पुरानिपातयोर्लट् ||३|३|४ | ' इति भविष्यति लट् । पुराशब्दोऽत्र भविष्यदासत्तिमाह । प्रीतिर्हि लङ्काप्रवेश इति दर्शयन्नाह - चेद्यद्यहं त्वां जीवन्तं न पश्यामि । वर्तमाने लट् । कदा कस्मिन् काले मे मम प्रीतिर्भवति भविष्यति । '२७८४ | विभाषा कदाकः | ३ | ३|५|' इति भविष्यति लट् ॥
I
१४९४ - ऊर्ध्वं म्रिये मुहूर्ताद्ध विह्वलः क्षत-बान्धवः, ॥ मन्त्रे स्म हितमाख्यामि, न करोमि तवा ऽप्रियम्. ॥ ३६ ॥
ऊर्ध्वमित्यादि - मुहूर्तादूर्ध्व उपरि अहं म्रिये मरिष्यामि । क्षतबान्धवत्त्वात् विह्वलः सन् । अनेन मरणस्य निमित्तभूतं प्राप्तकालं लोडर्थं दर्शयति । तेन '२७८८ । लिङ् चोर्ध्वमै हूर्तिके | ३ | ३ | १ | ' इति लोडर्थलक्षणे भविष्यति लट् । लोडश्च प्रैषादिकः । ' २५३८ । म्रियतेर्लुङ्गलिडोश्च | १|३|६११' इति चकारात् शितश्वात्मनेपदम् । अन्यच्च मत्रे मन्त्रविषये हितमाख्यामि स्म आख्या• तवानहम् । ‘२७७९। अपरोक्षे च । ३।२।११९ । ' इति लट् । ममाप्रियं मा कार्षीरिति । पृष्टः सन्नहं न करोमि तवाप्रियमिति न कृतवानसि । '२७८२ । नन्वोविभाषा | ३ |२| १२१।' इति पृष्टप्रतिवचने लट् ॥
युग्मम् – ३७ – ३८
१४९५ - अन्तः पुराणि पौलस्त्यं पोराश् च भृशदुःखिताः ॥ संश्रुत्य स्माsभिधावन्ति हतं रामेण संयुगे ॥३७॥
अन्तः पुराणीत्यादि - अनन्तरं पौलस्त्यं रामेण हतं संश्रुत्य भन्तः पुराणि पौराश्च दुःखिताः अभिधावन्ति स्म ढौकन्ते स्म '२७७८| लट् स्प्रे | ३ |२| ११८ | ' इति भूतानद्यतनपरोक्षे लट् ॥
१४९६ - मूर्धजान् स्म विलुञ्चन्ति, क्रोशन्ति स्माऽतिविह्वलम् ॥ अधीयन्त्युपकाराणां
मुहुर् भर्तुः प्रमन्यु च ॥ ३८ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com