________________
४३४ भट्टिकाव्ये – चतुर्थे तिङन्तकाण्डे लक्षण रूपे चतुर्थी वर्गः,
राक्षस इत्यादि - राक्षसो रावणः सूतमत्तर्जयत् भसितवान् । 'हा पाप ! किं शत्रुसमीपाद्रथं परामुखयसि' इति । इत्थं संतर्जितः सूतः पुनरपि रथमडौकयत् ढौकितवान् । रामसमीपमित्यर्थात् । उभौ रामरावणौ ब्राणान्निरास्येतां क्षिप्तवन्तौ । 'उपसर्गादस्यत्यूह्योर्वा' इति तङ् । धुर्यानश्वान विध्यतां ताडितवन्तौ ॥ १४५० - उभावकृन्ततां केतून व्यथेतामुभौ न तौ ॥
1
अदीयेतामुभौ धृष्णू, प्रायुञ्जातां च नैपुणम् १०४
उभावित्यादि - तावुभौ रामरावणौ केतून् ध्वजानकृन्ततां छिन्नवन्तौ । तावुभौ नाव्यथेतां न व्यथितवन्तौ । उभावदीप्येतां शोभितवन्तौ धृष्णू च प्रगल्भौ नैपुणं कौशलं प्रायुञ्जातां प्रयुक्तवन्तौ ॥
१४५१ - उभौ मायां व्यतायेतां वीरौ नम श्राम्यतार्मुभौ ॥ मण्डलानि विचित्राणि क्षिप्रम क्रामतामुभौ ॥ १०५ ॥
"
उभौ मायामित्यादि - तावुभौ माथां व्यतायेतां विस्तारितवन्तौ । '५२३। तायृ सन्तानपालनयोः ' भ्वादौ । उभौ वीरौ नाश्रामतां न श्रान्तौ । युध्यमानौ च तावुभौ मण्डलानि विचित्राणि मतिवैचित्र्यात् क्षिप्रमाक्रामतां भ्रान्तौ । '२३२१। वा भ्राश-|३|१|७० | ' इति शप् ॥
१४५२ - न चौभावप्यलक्ष्येतां यन्तारावा॑ह॒तामुभौ ॥
"
स्यन्दनौ समपृच्येतामुभयोर् दीप्त वाजिनौ ॥ १०६ ॥
1
न चेत्यादि - तावुभौ नाप्यलक्ष्येतां प्रेक्षकैर्न ज्ञातौ । 'अयं रामः अयं च रावणः' इति । कर्मणि लङ् । यन्तारौ सूतौ । कर्मपदमेतत् । उभौ परस्परस्य । भहतामाहतवन्तौ । '२४२८| अनुदात्तोपदेश | ६|४|३७|' इत्यादिनानुमासिकलोपः । स्यन्दनौ रथौ उभयोः रामरावणयोः दीप्तवाजिसौ चामरादिमण्डनात् दीक्षा उज्वला वाजिनो ययोः तयोः खन्दनौ समपृच्येतां संपृक्तौ । '१५५७। 'पृची सम्पर्के' । कर्मणि लड् ॥
१४५३ - ततो मायामयान् मूर्ध्नो राक्षसो ऽप्रथयद्रणे, ॥
रामेणैकशतं तेषां प्रावृश्यत शिलीमुखैः ॥ १०७ ॥
·
तत इत्यादि - ततोऽनन्तरं राक्षसः मायामयान् मायास्खभावान्मूर्भः शिरांसिप्रथयत् प्रदर्शितवान्। 'प्रथ प्रख्याने' इति घटादौ । तेषां च शिरसास् एकशतं एकाधिकं शतं रामेण शिलीमुखैः शरैः प्रावृश्यत छिन्नम् । कर्मणि लड् ॥ १४५४ - समक्षुम्नन्नुदन्वन्तः, प्राकम्पन्त महीभृतः, ॥ सन्त्रासमबिभः शक्रः, फ्रैंखच्चे, क्षुभिता क्षितिः. १०८ समक्षुन्नन्नित्यादि – छिद्यानां च पततां क्षोभादुदन्वन्तः सागराः समक्षुअन् सञ्चलिताः । ' १६१७। शुभ सञ्चलने' इति क्यादिः । महीभृतः प्राकम्पन्त Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
"