________________
तथा लक्ष्य रूपे कथानके 'रावण वधो' नाम सप्तदशः सर्गः - ४३५
कम्पिताः । शक इन्द्रः संत्रासमभिः भृतवान् । पततां शिरसां पुनः पुनरुदयात् । मायया विमोद्यायं राममजैषीदिति । बिभर्तेः श्रौ द्विर्वचनम् । २५९६ ॥ भृञामित्र |७|४|७६॥ धातोर्गुणः । पररूपत्वमिति लोपविसर्जनीयौ प्रेङ्खत् क्षुमितश्च स शक्रः । उखेत्यादाविखिरिति पठ्यते । क्षितिश्च क्षुभिता चलिता ॥ १४५५ - ततो मातलिना शस्त्रमस्मर्यत महीपतेः ॥
I
1
वधाथ रावणस्य स्वयम्भूर् यदकल्पयत्. ॥१०९ ॥
तत इत्यादि - रावणस्य वधाय स्वयम्भूर्यदत्रमकल्पयत् कल्पितवान् । कृपेण गुणः । '२३५०। कृपो रो लः | ८ |२| १८ |' तदखं मातलिना भस्मर्यंत स्मारितम् । स्मरतेर्ण्यन्तात् कर्मणि लङ् । मित्वाद्रस्वत्वम् । महीपतेरिति '६१३। अधीगर्थ | २|३|५२ |' इति षष्ठी ॥
कीदृशं तदित्याह
१४५६–नभस्वान् यस्य वाजेषु, फले तिग्मांशु - पावकौ ॥
गुरुत्वं मेरु-सङ्काशं, देहः सूक्ष्मो वियन्मयः ॥ ११० ॥
नभस्वानित्यादि - यस्य शस्त्रस्य वाजेषु [ पक्षेषु ] नभस्वान् वायुः सन्नि हितं फले [ शल्ये ] तिग्मांशुरादित्यः पावकश्च । यस्य गुरुत्वं मेहवत् मेरोरिव । 'दृढत्वं मेरुसङ्काशम्' इति पाठान्तरम् । तत्र मेरुस्थलगौरवसदृशमित्यर्थः । सूक्ष्मो देहो दिव्यचक्षुर्गम्यः वियन्मय आकाशस्वभावः ॥ १४५७ - राजितं गारुडैः पक्षैर् विश्वेषां धाम तेजसाम् ॥
स्मृतं तद् रावणं भित्त्वा सुघोरं भुव्यशाययत्. १११
1
राजितमित्यादि - गारुडैः पक्षै राजितं शोभितम् । तेजसां विश्वेषां अनेकप्रकाराणां धाम स्थानम् । तदस्त्रं रामेण स्मृतं स्मृतिमागत्य सुघोरं रावणं भित्त्वा भुवि अशाययत् शायितवत् । रावणस्योदरं मिरवा भूमौ पातितवदित्यर्थः ॥ १४५८ - आबघ्नन् कपिं वदनानि संप्रसाद,
प्राशंसत् सुर-समितिर्नृपं जिता ऽरिम्, ॥ अन्येषां विगत परिप्लवा दिगन्ताः, पौलस्त्योऽजुषत शुचं विपन्न-बन्धुः ॥ ११२ ॥ इति भट्टिकाव्ये तिङन्तकाण्डे लड्-विलसितो नाम सप्तदशः सर्गः ॥ १७ ॥
आबध्नन्नित्यादि - तस्मिन् हते कपिवदनानि कर्तृभूतानि तोषात् संप्रसा
१ 'अस्मात महीपतिः' इति पाठान्तरम् । २ - ' ८५३ | पक्षो वाजस्त्रिषूत्तरे ।' इत्यमर सिंहः । ३ - प्रहर्षिणीवृत्तम् - "नौजोंग स्त्रिदशयतिः प्रहर्षिणीयम्” इति लक्षणात् ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com