Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 472
________________ तथा लक्ष्य-रूपे कथानके 'विभीषण-प्रलापो' नामाष्टादशः सर्ग:- ४३९ ।६।१८९॥ इति वृद्धिः । अभ्यमीति पाठान्तरं तदयुक्तं छान्दसत्वात् । यतः यमो बहुलं छन्दसि हलादावनन्तरे सार्वधातुके '२४४४॥ तु-रु-स्तु-शम्यमः सार्वधातुके ।।३।९५।' इतीद ॥ १४७३-त्वमजानन्निदं राजनीडिषे स्म स्व-विक्रमम् , ॥ दातुं नैच्छसि सीतां स्म, विषयाणां च नैशिषे. १५ त्वमित्यादि-हे राजन् ! त्वमिदं यथोदितमजानन् स्वविक्रममीडिषे स स्तुतवानसि । '२४४०। ईड-जनोत्रं च ७।२।७८।' इति चकारात् सेशब्दस्थापीट् । एवं च कृत्वा त्वं सीतां दातुं नेच्छसि स नेष्टवानसि । विषयाणां शब्दादीनां नेशिषे स विषयान जितवानसि । '२४३९। ईशः से ७।२।७७।' इतीद । '६१३। अधीगर्थ-१२।३।५२।' इति कर्मणि षष्ठी । सर्वत्र '२७७९। अपरोक्षे च ।३।२।११९।' इति लट् ॥ १४७४-मन्त्रे जातु वदन्त्यज्ञास् , त्वं तानप्यनुमन्यसे, ॥ कथं नाम भवांस्तत्र नाऽवैति हितमात्मनः॥१६॥ मन्त्र इत्यादि-मन्त्रविषये अपण्डिताः मूर्खाः सन्तः जातु कदाचिदपि वदन्ति गर्हितमेतत् । तानपि त्वमनुमन्यसे अनुमतवान् । इदमप्यतिगर्हितम् । '२७९९। गौंयां लडपिजात्वोः ।३।३।१४२।' इति अपिजात्वोरुपपदयोः कालसामान्ये लट् । कथमेतत् न्याय्यं यत्तत्र भवान् रावणः विद्वानपि नास्मनो हितमवैति न विदितवान् । '२०००। विभाषा कथमि लिङ् च ।३।३।१४३॥' इति कथंशन्द्र उपपदे चकारात् गायां लट् । तत्र भवानिति १९६३। इतराभ्योऽपि दृश्यन्ते ।५।३।१४।' इति भवदादियोगे प्रथमान्तात् त्रत्प्रत्ययः । १४७५-अ-पृष्टो नु ब्रवीति त्वां मन्त्रे मातामहो हितम्, ।। 'न करोमीति पौलस्त्य! तदा मोहात् त्वमुक्तवान्१७ अपृष्ट इत्यादि-किमस्मिन् काले युज्यत इति मन्त्रे मातामहो माल्यवान् अपृष्टः सन् हितं नु ब्रवीति । हे पौलस्त्य ! त्वं पुनर्हितमकार्षीरिति माल्यवता पृष्टं तदा तस्मिन् काले म करोमीति मोहादज्ञानादुक्तवान् । अत्र नुशब्दे नशब्दे चोपपदे । '२७८०। ननौ पृष्टप्रतिवचने ।३।२।१२०५' इति भूते धास्वर्थे '२७८१। नन्द्रोविधाणा ३॥२॥१२॥' इति विभाष लट् ॥ १४७६-त्वं स्म वेत्थ महाराज! यत् स्माऽऽहन विभीषणः॥ पुरा त्यजति यत् क्रुद्धो मां निराकृत्य संसदि.॥१८॥ त्वमित्यादि-हे महाराज ! विभीषणो यदाह स उक्तवान् तत्त्वं न वेत्थ सन विदितवानसि । किमेतेन हितमुक्तं न वेति । उभयत्र '२७७९। अप. रोझेब ARARI' इति लः । तत्र पूर्वमिन '२४६ विवे को वा Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514