Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji
View full book text
________________
४३६ भट्टि-काव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे पञ्चमो वर्गः,
दमाबध्नन् सेवितवन्ति । सुरसमितिः सुरसमूहः नृपं जितारि प्राशंसत् स्तुतवती । अप्येषां अन्यजनानां दिगन्ताः रावणवधाद्विगतपरिप्लवा निरुपद्रवा जाता इत्यर्थात् । पौलस्त्यो विभीषणः विपन्नबन्धुः मृतभ्रातृकः शुचं शोकमजुषत् सेवितवान् । जुषिस्तुदादावनुदात्तेत् ॥ इति श्रीजयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री-भट्टिकान्येचतुर्थे तिङन्त-काण्डे लक्षण-रूपे चतुर्थः परिच्छेदः (वर्गः), तथा लक्ष्य-रूपे कथानके 'रावण-वधो' नाम
सप्तदशः सर्गः ॥१७॥
अष्टादशः सर्गःइतः प्रभृति लटमधिकृत्य लविलसितमाह-तत्र वर्तमाने लट् । ततोऽन्यप्रापि दर्शयिष्यति१४५९-व्यश्रुते स्म ततः शोको नाभि-सम्बन्ध-सम्भवः ।।
विभीषणमसावुच्चै रोदिति स्म दशाऽऽननम्. ॥१॥ व्यश्रुत इत्यादि-ततो वधादनन्तरं शोको विभीषणं व्यश्नुते स व्याप्तवान् । '२७७८। लट् स्मे-३।२।११।' इति भूतानद्यतनपरोक्षे लट् । नाभिसम्बन्धेन एकोदरसम्बन्धेन सम्भवो यस्य शोकस्य । असौ प्रवृद्धशोको विभीषणः उच्चैर्महता शब्देन दशाननं नामग्राहं रोदिति स रुदितवान् ।
तदेव दर्शयन्नाह१४६०–'भूमौ शेते दश-ग्रीवो महार्ह-शयनोचितः, ॥
नेक्षते विह्वलं मां च, न मे वाचं प्रयच्छति. ॥२॥ भूमावित्यादि-महाहंशयने उचितो यः स भूमौ शेते । शोकाद्विलं च मां नेक्षते । मे वाचं प्रतिवचनं न प्रयच्छति न ददाति । ९९६। दाण् दाने'। '२३६०। पा-घ्रा-७३।७४।' इत्यादिना यच्छादेशः ॥ । १४६१-विपाकोऽयं दश-ग्रीव ! संदृष्टो ऽनागतो मया.॥
त्वं तेनाऽभिहितः पथ्यं किं कोपं न नियच्छसि.॥३॥ विपाक इत्यादि हे दशग्रीव ! अयं विपाको मरणलक्षणं फलं अनागतो भविष्यन्नेव मया संदृष्टः सम्यगुपलब्धः । इदानीं पश्यसि तेन कारणेन योऽभि-. हितोऽसि 'सीतां मुन्च' इति । अतः किमिति कोपं न लियच्छसि नापनयसि । नास्स्येव मम दोषः । निपूर्वो यमिरपनयने वर्तते ॥ १४६२-भजन्ति विपदस् तूर्णमतिकामन्ति सम्पदः॥
तान् , मदान नाऽवतिष्ठन्ते ये मते न्यायवादिनाम्.४ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514