Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 462
________________ तथा लक्ष्य-रूपे कथानके 'रावण वधो' नाम सप्तदशः सर्गः - तत इत्यादि - ततो दशग्रीवः क्रुद्धः वनौकसां वानराणां प्राणानकुष्णात् । कुष्टवान् । ‘१६१६। कुष निष्कर्षे' । रक्षांसि च राक्षसांश्चागोपायत् रक्षितवान् । '२३०३। गुपूधूप- । ३|१|२८|' इत्यादिना आयप्रत्ययः । भरींश्च दिशोऽभाजयत् प्रहितवान् ॥ > १४२७ - आलोकयत् स काकुत्स्थमृ॑धृष्णोद्, घोरम॑ध्वनत् ॥ धनुरभ्रमयद् भीममृ॑भीषयत विद्विषः ॥ ८१ ॥ ४२९ आलोकयदित्यादि - स दशग्रीवः काकुत्स्थमालोकयत् दृष्टवान् । घोरदर्शनमधृष्णोत् धृष्टवान् । '१३५० । जिष्टषा प्रागल्भ्ये' इति स्वादिः । ताननुसरन् घोरमध्वनत् ध्वनितवान् । रामं मारयामीति भीमं धनुरभ्रमयत् भ्रमितवान् । '२५६८ । मितां ह्रस्वः | ६|४|१२|' मान्तत्वान्मित्त्वम् । ये विद्विषो न पलायिताः तानभीषयत त्रासितवान् । '२५९५। मियो हेतु भये षुक् | ७|३|४०|' | '२५९४ । भीस्म्योर्हेतुभये ||३|६८|' इति तङ् ॥ १४२८ - आस्कन्दल् लक्ष्मणं बाणैर॑त्यक्रामच् च तं द्रुतम् ॥ रामम॑भ्यद्रवज् जिष्णुर॑स्कुनाच् चैषु वृष्टिभिः ८२ , आस्कन्ददित्यादि - जिष्णुर्जयशीलो दशग्रीवः लक्ष्मणं वाणैरास्कन्दत् बाधितवान् । '१०४८। स्कन्दिर् गतिशोषणयोः । तं च लक्ष्मणं द्रुतमत्यक्रामत् आक्रान्तवान् । शिति दीर्घः । अतिक्रम्य च राममभ्यद्रवत् अभिमुखं गतवान् । '१०११ । द्रु गतौ' । इषुवृष्टिभिरस्कुनात् छादितवान् । '१५७३। स्कुन् आवरणे' | '२५५५॥ स्तम्भुस्तुम्भु | ३|११८२|' इत्यादिना चकारात् श्रा ॥ १४२९ - अपौहद् बाण-वर्षे तद् भलै राम्रो निराकुलः, ॥ प्रत्यस्कुनोद दश-ग्रीवं शरैरशी -विषा॒मैः ॥८३॥ अपौहदित्यादि - तद्वाणवर्षे रामो निराकुलः सन् भलैर पोहत् अपनीतवान् । 'उपसर्गादस्यत्यूह्योर्वा' इति पक्षे तिप् । दशग्रीवं बाणैराशीविषोपमैः दुःसहत्वात्प्रत्यस्कुनोत् प्रतीपं छादितवान् । अत्र श्रुप्रत्ययः ॥ १४३० - मण्डलान्टतां चित्रमुच्छित्तां शस्त्र - संहतीः ॥ जगद् विस्मापयेतां तौ, न च वीरावसीदताम् ८४ मण्डलानीत्यादि - चित्रमाश्चर्य मण्डलान्याटतां चक्रवद् भ्रान्तौ । शस्त्रसंहतीः अच्छित्तां छिन्नवन्तौ । जगत् विस्मापयेतां विस्मापितवन्तौ । ' २५९६ ॥ नित्यं स्मयतेः | ६ | १|५७ |' इत्यात्वम् । न च तौ वीरौ असीदतां भवसन्नौ 1 '२३६०। पा-घ्रा-१७।३।७८ ।' इति सीदादेशः ॥ १४३१ - व्योम प्राचिनुतां बाणैः, क्ष्मामक्ष्मापयतां गतैः, ॥ अभित्तां तूर्णम॑न्योन्यं शिक्षाश् चा ऽतनुतां मुहुः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514