Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 463
________________ ४३० भट्टिकाव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे चतुर्थों वर्गः, व्योमेत्यादि-बाणैर्योम प्राचिनुतां छादितवन्तौ। मां पृथिवीं अक्ष्माप. यतां कम्पितवन्तौ । '५२०। क्ष्मायी विधूनने' । '२५७० । अर्ति-ही-७॥३॥३६॥' इत्यादिना पुक् । अन्योन्यममित्तां विदारितवन्तौ । '२४६९। सोरलोपः ।६।४।११' चर्वेन च तकारः । तूर्ण शिक्षाः धनुषि कौशलानि मुहुरतनुतां विस्तारितवन्तौ । १४३२-समाधत्ता ऽऽसुरं शस्त्रं राक्षसः क्रूर-विक्रमः, ॥ तदक्षरन् महासर्पान् व्याघ्र-सिंहांश् च भीषणान्. ।। समाधत्तेत्यादि-राक्षसः असुरं शस्त्रं समाधत्त धनुष्यारोपितवान् । श्लो द्विर्वचनमभ्यासकार्यम् । २४४३॥ भाभ्यस्तयोः-१६।४।१२।' इत्याकारलोपः। २५.१। दधस्तथोश्च २।३८' इति भष्भावः । '२२००। झषस्तथो|ऽधः ।।४।' इति प्रतिषेधात् तकारस्य धत्वं न भवति । तत्संहितं सादीन् प्राक्षरत् मुक्तवत् ॥ १४३३-न्यषेधत् पावकाऽस्त्रेण रामस् तद् राक्षसस् ततः॥ अदीव्यद् रौद्रमत्युग्रं, मुसलाऽऽद्यगलत् ततः॥८७॥ न्यषेधदित्यादि-तदासुरं शस्त्रं रामः पावकास्त्रेण न्यषेधत् निषिद्धवान् । ततो राक्षसो रौद्रमस्त्रमत्युग्रमदीव्यत् क्षिप्तवान् । अत्र दिविर्गतौ वर्तते । ततो रौद्रात् क्षिप्तात् मुसलादिप्रहरणमगलत् । निर्गतवत् । ५८७। गल भदने । अनेकार्थत्वाद्धातूनां गलिरत्र निर्गमे वर्तते ॥ १४३४-गान्धर्वेण न्यविध्यत् तत् क्षितीन्द्रो, ऽथ नराऽशनः॥ सर्व-मर्मसु काकुत्स्थ मौम्भत् तीक्ष्णैः शिलीमुखैः ॥ ८८॥ गान्धर्वेणेत्यादि-क्षितीन्द्रो रामः तद्रौद्रमस्त्रं गान्धर्वेणास्त्रेण न्यविध्यत् ताडितवान् । अथ नराशनो राक्षसः शिलीमुखैर्वाणैः सर्वमर्मसु काकुत्स्थमौम्भत पूरितवान् । १४०७॥ उम्भ पूरणे' तुदादौ ॥ १४३५-ततस् त्रिशिरसं तस्य प्रावृश्चल् लक्ष्मणो ध्वजम् ॥ अमश्नात् सारथिं चाऽऽशु, भूरिभिश् चा ऽतुदच्छरैः ॥ ८९ ॥ तत इत्यादि-ततोऽनन्तरं लक्ष्मणस्तस्य रावणस्य ध्वजं त्रिशिरसं त्रिशूलाग्रं प्रावृश्चत् छिन्त्रवान् । '१३७६। ओवश्चू च्छेदने' तुदादौ । सारथिं चामभात Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514