________________
४३० भट्टिकाव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे चतुर्थों वर्गः,
व्योमेत्यादि-बाणैर्योम प्राचिनुतां छादितवन्तौ। मां पृथिवीं अक्ष्माप. यतां कम्पितवन्तौ । '५२०। क्ष्मायी विधूनने' । '२५७० । अर्ति-ही-७॥३॥३६॥' इत्यादिना पुक् । अन्योन्यममित्तां विदारितवन्तौ । '२४६९। सोरलोपः ।६।४।११' चर्वेन च तकारः । तूर्ण शिक्षाः धनुषि कौशलानि मुहुरतनुतां विस्तारितवन्तौ । १४३२-समाधत्ता ऽऽसुरं शस्त्रं राक्षसः क्रूर-विक्रमः, ॥
तदक्षरन् महासर्पान् व्याघ्र-सिंहांश् च भीषणान्. ।। समाधत्तेत्यादि-राक्षसः असुरं शस्त्रं समाधत्त धनुष्यारोपितवान् । श्लो द्विर्वचनमभ्यासकार्यम् । २४४३॥ भाभ्यस्तयोः-१६।४।१२।' इत्याकारलोपः। २५.१। दधस्तथोश्च २।३८' इति भष्भावः । '२२००। झषस्तथो|ऽधः ।।४।' इति प्रतिषेधात् तकारस्य धत्वं न भवति । तत्संहितं सादीन् प्राक्षरत् मुक्तवत् ॥ १४३३-न्यषेधत् पावकाऽस्त्रेण रामस् तद् राक्षसस् ततः॥
अदीव्यद् रौद्रमत्युग्रं, मुसलाऽऽद्यगलत् ततः॥८७॥ न्यषेधदित्यादि-तदासुरं शस्त्रं रामः पावकास्त्रेण न्यषेधत् निषिद्धवान् । ततो राक्षसो रौद्रमस्त्रमत्युग्रमदीव्यत् क्षिप्तवान् । अत्र दिविर्गतौ वर्तते । ततो रौद्रात् क्षिप्तात् मुसलादिप्रहरणमगलत् । निर्गतवत् । ५८७। गल भदने । अनेकार्थत्वाद्धातूनां गलिरत्र निर्गमे वर्तते ॥ १४३४-गान्धर्वेण न्यविध्यत् तत्
क्षितीन्द्रो, ऽथ नराऽशनः॥ सर्व-मर्मसु काकुत्स्थ
मौम्भत् तीक्ष्णैः शिलीमुखैः ॥ ८८॥ गान्धर्वेणेत्यादि-क्षितीन्द्रो रामः तद्रौद्रमस्त्रं गान्धर्वेणास्त्रेण न्यविध्यत् ताडितवान् । अथ नराशनो राक्षसः शिलीमुखैर्वाणैः सर्वमर्मसु काकुत्स्थमौम्भत पूरितवान् । १४०७॥ उम्भ पूरणे' तुदादौ ॥ १४३५-ततस् त्रिशिरसं तस्य
प्रावृश्चल् लक्ष्मणो ध्वजम् ॥ अमश्नात् सारथिं चाऽऽशु,
भूरिभिश् चा ऽतुदच्छरैः ॥ ८९ ॥ तत इत्यादि-ततोऽनन्तरं लक्ष्मणस्तस्य रावणस्य ध्वजं त्रिशिरसं त्रिशूलाग्रं प्रावृश्चत् छिन्त्रवान् । '१३७६। ओवश्चू च्छेदने' तुदादौ । सारथिं चामभात Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com