________________
तथा लक्ष्य-रूपे कथानके 'रावण वधो' नाम सप्तदशः सर्गः -
तत इत्यादि - ततो दशग्रीवः क्रुद्धः वनौकसां वानराणां प्राणानकुष्णात् । कुष्टवान् । ‘१६१६। कुष निष्कर्षे' । रक्षांसि च राक्षसांश्चागोपायत् रक्षितवान् । '२३०३। गुपूधूप- । ३|१|२८|' इत्यादिना आयप्रत्ययः । भरींश्च दिशोऽभाजयत् प्रहितवान् ॥
>
१४२७ - आलोकयत् स काकुत्स्थमृ॑धृष्णोद्, घोरम॑ध्वनत् ॥ धनुरभ्रमयद् भीममृ॑भीषयत विद्विषः ॥ ८१ ॥
४२९
आलोकयदित्यादि - स दशग्रीवः काकुत्स्थमालोकयत् दृष्टवान् । घोरदर्शनमधृष्णोत् धृष्टवान् । '१३५० । जिष्टषा प्रागल्भ्ये' इति स्वादिः । ताननुसरन् घोरमध्वनत् ध्वनितवान् । रामं मारयामीति भीमं धनुरभ्रमयत् भ्रमितवान् । '२५६८ । मितां ह्रस्वः | ६|४|१२|' मान्तत्वान्मित्त्वम् । ये विद्विषो न पलायिताः तानभीषयत त्रासितवान् । '२५९५। मियो हेतु भये षुक् | ७|३|४०|' | '२५९४ । भीस्म्योर्हेतुभये ||३|६८|' इति तङ् ॥
१४२८ - आस्कन्दल् लक्ष्मणं बाणैर॑त्यक्रामच् च तं द्रुतम् ॥ रामम॑भ्यद्रवज् जिष्णुर॑स्कुनाच् चैषु वृष्टिभिः ८२
,
आस्कन्ददित्यादि - जिष्णुर्जयशीलो दशग्रीवः लक्ष्मणं वाणैरास्कन्दत् बाधितवान् । '१०४८। स्कन्दिर् गतिशोषणयोः । तं च लक्ष्मणं द्रुतमत्यक्रामत् आक्रान्तवान् । शिति दीर्घः । अतिक्रम्य च राममभ्यद्रवत् अभिमुखं गतवान् । '१०११ । द्रु गतौ' । इषुवृष्टिभिरस्कुनात् छादितवान् । '१५७३। स्कुन् आवरणे' | '२५५५॥ स्तम्भुस्तुम्भु | ३|११८२|' इत्यादिना चकारात् श्रा ॥ १४२९ - अपौहद् बाण-वर्षे तद् भलै राम्रो निराकुलः, ॥
प्रत्यस्कुनोद दश-ग्रीवं शरैरशी -विषा॒मैः ॥८३॥
अपौहदित्यादि - तद्वाणवर्षे रामो निराकुलः सन् भलैर पोहत् अपनीतवान् । 'उपसर्गादस्यत्यूह्योर्वा' इति पक्षे तिप् । दशग्रीवं बाणैराशीविषोपमैः दुःसहत्वात्प्रत्यस्कुनोत् प्रतीपं छादितवान् । अत्र श्रुप्रत्ययः ॥ १४३० - मण्डलान्टतां चित्रमुच्छित्तां शस्त्र - संहतीः ॥
जगद् विस्मापयेतां तौ, न च वीरावसीदताम् ८४
मण्डलानीत्यादि - चित्रमाश्चर्य मण्डलान्याटतां चक्रवद् भ्रान्तौ । शस्त्रसंहतीः अच्छित्तां छिन्नवन्तौ । जगत् विस्मापयेतां विस्मापितवन्तौ । ' २५९६ ॥ नित्यं स्मयतेः | ६ | १|५७ |' इत्यात्वम् । न च तौ वीरौ असीदतां भवसन्नौ 1 '२३६०। पा-घ्रा-१७।३।७८ ।' इति सीदादेशः ॥
१४३१ - व्योम प्राचिनुतां बाणैः, क्ष्मामक्ष्मापयतां गतैः, ॥ अभित्तां तूर्णम॑न्योन्यं शिक्षाश् चा ऽतनुतां मुहुः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com