________________
४२८ भट्टिकाव्ये-चतुर्थे तिडन्त-काण्डे लक्षण-रूपे चतुर्थो वर्गः, ।६।१।२।' इति द्विवंचने '२४४६॥ न न्द्राः-६॥१॥३॥' इति रेफो न द्विरुच्यते । नुशब्दस्य द्विवचनम् । '२६३०। गुणो यङ्लुकोः ७४१८२॥ इति गुणः । '२२. ९८। अकृत्सार्वधातुकयोः-७।४।२५।' इति दीर्घः ॥
युग्मम्-७६।७७ १४२२-व्यनाशयंस् ततः शत्रून् सुग्रीवाऽस्ता महीभृतः, ॥
- ततो व्यरसदंग्लायदध्यशेत मही-तलम् ॥ ७६ ।। व्यनाशयन्नित्यादि-ततोऽनन्तरं सुग्रीवास्ताः सुग्रीवेण क्षिप्ता महीभृतः पर्वताः शत्रुसैन्यं व्यनाशयन् मारितवन्तः । ततो मांसादां रक्षसां बलं सुग्रीव. बाधितं पीडितमित्युत्तरश्लोकेन संबन्धः । व्यरसत् आक्रन्दितवत् । अग्लायत् ग्लानिं गतम् । महीतलमध्यशेत महीतले पतितम् । '२४४१॥' शीङः सार्वधातुके गुणः ॥४॥२॥ ॥ १४२३-आश्योतद् रुधिरं, तोयमलसच्चाऽति विह्वलम् ,॥
अशीयत नृ-मांसाऽदां बलं सुग्रीव-बाधितम्.॥७७॥ आश्चयोतदित्यादि-रुधिरमाश्योतत् अनवत् । विह्वलं च सत् तोयमलसत् अभिलषितवत् । '२३२१॥ वा भ्राश-३।१७०' इत्यादिना विकल्पेन शप् । अशीयत च अवसन्नम् । '२३६२ । शदेः शितः ।।३।६०।' इति तङ्। '२३६० । पाघ्रा-७३।७४।' इत्यादिना शीयादेशः । मांसमदन्तीति । २९७७॥ अदोऽनने ।३।२।६।' इति विट् ॥ १४२४-विरूपाक्षस् ततो क्रीडत् संग्रामे मत्त-हस्तिना, ॥
मुष्टिनाऽदालयत् तस्य मूर्धानं वानराऽधिपः. ७८ विरूपाक्ष इत्यादि-ततो विरूपाक्षो नाम राक्षसः मत्तहस्तिना संग्रामे अक्रीडत् भ्रान्तवान् । तस्य मूर्धानं वानराधिपः सुग्रीवः मुष्टिना अदालयत् दलितवान् । १८८८। दल विदारणे' चुरादिः ॥ १४२५-अचूर्णयच् च यूपाक्षं शिलया तदनन्तरम्. ॥
संक्रुद्धो मुष्टिनाऽतुभ्नादङ्गदोऽलं महोदरम्. ॥७९॥ अचूर्णयदित्यादि-तदनन्तरं वानराधिपः यूपाक्षं नाम राक्षसं शिलया अचूर्णयत् चूर्णितवान् । 'तत्करोति' इति णिच् । अङ्गदोऽपि संक्रुद्धः मुष्टिना महोदरं अलंपर्याप्तमतुभ्नात् व्यापादितवान् । १६१९। नभतुभ हिंसायाम्' श्यादिः॥ १४२६-ततो ऽकुष्णाद् दशग्रीवः
क्रुद्धः प्राणान् वनौकसाम्, ॥
अगोपायच् च रक्षांसि
दिशश् चा ऽरीनभाजयत्. ॥ ८॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com