________________
तथा लक्ष्य-रूपे कथानके 'रावण-वधो' नाम सप्तदशः सर्गः- ४२७ १४१८-सर्वतश् चाऽभयं प्राप्नोन्
नैच्छन् नृभ्यस् तु रावणः, ॥ फलं तस्यैदमभ्यायाद्
दुरुक्तस्येति चा ऽब्रुवन्. ॥ ७२ ॥ सर्वत इत्यादि-सर्वतो देवादिभ्यः अभयं रावणः प्राप्नोत् प्राप्तवान् । यतो 'ब्रह्मणि वरं दातुमुद्यते देवादीनामवध्यो भूयासम्' इत्युक्तवान् । नृभ्यस्तु सकाशादभयं नैच्छन्नेष्टवान् के मम मानुषा इति तस्य दुरुक्तस्य फलमभ्यायात् उपागतम् । इत्येवमपरे अब्रुवन् उक्तवन्तः ॥ १४१९-ततो ऽधावन् महा-घोरं रथास्थाय रावणः, ॥
अक्ष्मायत मही, गृध्राःसमारार्यन्त भीषणाः.॥७३॥ तत इत्यादि-ततो ऽनन्तरं महाघोरं रथमास्थायारुह्य रावणः योद्धं वेगेनाधावत् गतवान् । तस्य च धावतो मही अक्ष्मायत कम्पिता। ५२०।क्ष्मायी विधूनने' । गृध्राश्च भीषणाः समारार्यन्त अत्यर्थं गतवन्तः । 'सूचि-सूत्रि-मूत्रिभ्यो यङ्' अव्यय॑शूर्णोतीनां ग्रहणं यङ्विधावनेकाजहलाद्यर्थमित्युपसंख्यानात् अतैर्यङ् । '२३८०। गुणो ऽतिसंयोगाद्योः ।७।४।२९।' इत्यधिकृत्य '२६३३। यडि च ७।३०।' इति गुणः ॥ १४२०-मेघाः स-विद्युतो ऽवर्षश् चेल-क्नोपं च शोणितम्, ॥
अवान् भीमा नभस्वन्तः, प्रारुवन्न-शिवाः शिवाः॥ मेघा इत्यादि-सविद्युतो मेघाश्वेलकोपं शोणितं रक्कं अवर्षन् वर्षितवन्तः । यावता रक्तेन चेलं वासः कोपयते सिच्यते तावत्प्रमाणं वृष्टवन्तः । ५१९। यी शब्दे' इत्यस्य ण्यन्तस्य '२५७०। अर्ति-ही-७।३।३३६॥' इत्यादिना पुकि यलोपः। '३३५४। चेले कोपेः ।३।४।३३।' इति णमुल । भीमाः नभस्वन्तः वायवः अवान वान्ति स्म । '२४६३। लङः शाकटायनस्यैव ।३।।११॥' इति नियमादन्यमते झेर्जुस न भवति । शिवाः शृगाल्यः अशुभाः अनिष्टशंसिन्यः प्रारुवन् शब्दितवत्यः॥ १४२१-आटाट्यता ऽवमत्या ऽसौ
दुनिमित्तानि, संयुगे॥ अधुनोद् धनुरस्त्रौषैः
प्रौर्णोनूयत विद्विषः ॥ ७५ ॥ आटाट्यतेत्यादि-भसौ रावणः दुनिमित्तान्यवमत्य युद्धार्थमाटाव्यत अत्यथैमाटत् । 'सूचि-सूत्रि-'इत्यादिना यछ । संयुगे युद्धे धनुरधुनोत् कम्पितवान् । अस्नौधैर्विद्विषः शत्रून प्रौर्णोनूयत भूशं छादितवान् । 'अणुन आच्छादने' । अर्णोतेर्गुवद्भावात् 'सूचि-सूत्रि-' इत्यादिना वा यछ । २१७६। मजादेर्द्वितीयस्य Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com