________________
४२६ भट्टिकाव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे चतुर्थो वर्गः, वान् । १५४६। पिषु संचूर्णने' सर्वे रौधादिकाः । न च संचरन् रामः अज्ञायत न ज्ञातः । स्वैः परत्यर्थात् । कर्मणि ला॥
युग्मम्-६७।६८ १४१३-दश दन्ति-सहस्राणि रथिनां च महाऽऽत्मनाम् ॥
चतुर्दश सहस्राणि साऽऽरोहाणां च वाजिनाम् ६७ १४१४-लक्षे च द्वे पदातीनां राघवेण धनुर्-भृता ॥
अनीयन्ताष्टमे भागे दिवसस्य परिक्षयम्.॥ ६८॥ दशेत्यादि-अनेन श्लोकद्वयेन राघवेण धनुर्भूता दिवसस्याष्टमे भागे अर्धप्रहरे दश दन्तिनां सहस्राणि रथिनां च महात्मनां चतुर्दश सहस्राणि । सारोहाणां च वाजिनां तावन्त्येव । पदातीनाम् द्वे लक्षे परिक्षयं विनाशमनीयन्त नीताः । कर्मणि लङ् । अनीयतेति पाठान्तरं तत्र सर्वमेतदनीयतेति योज्यम् ॥ १४१५-यम-लोकमिवा, ग्रश्नाद्,
रुद्राऽऽक्रीडमिवा ऽकरोत् , ॥ शैलैरिवा ऽचिनोद् भूमि
बृहद्भी राक्षसैर हतैः ॥ ६९ ॥ यमलोकमित्यादि-स राघवः तैः राक्षसैः बृहद्भिः यमलोकमिवाप्रश्नात सन्दर्भितवान् । १६०९।१०। श्रन्थ ग्रन्थ सन्दर्भे' इति श्यादिः । रुद्राक्रीडमिव रुद्रस्य क्रीडास्थानं सशानमिवाकरोत् । भूमि शैलैरिवाचिनोत् छादितवान् ॥ १४१६-अस्तुवन् देव-गन्धर्धा, व्यस्मयन्त प्लवङ्गमाः, ॥
कपीन्द्रेऽतन्यत प्रीतिः, पौलस्त्योऽमन्यताऽद्भुतम्॥ अस्तुवनित्यादि-तमद्भुतकर्मकारिणं देवा अस्तुवन् स्तुवन्ति स्म । प्लवगमाः कपयः व्यस्मयन्त विस्मिताः । ङित्त्वात्तङ् । कपीन्द्रे सुग्रीवे प्रीतिरतन्यत तन्यते स । कर्मकर्तरि लङ । पौलस्त्यो विभीषणः आश्चर्य ज्ञातवान् ॥ १४१७-राक्षस्यः प्रारुदन्नुच्चैः, प्राजुगुप्सन्त रावणम् ॥
अमुह्यद् बाल-वृद्धं च, समरौदितरो जनः ॥७१॥ राक्षस्य इत्यादि-राक्षस्यो भादिवधदुःखिताः उच्चैः प्रारुदन रुदितवत्यः । '२४७४। रुदादिभ्यः-७।२७६।' इतीद न भवति अहलादित्वात् । रावणं प्रांजुगुप्सन्त निन्दितवत्यः । एतदुर्णयात् सर्वमिति । बाला वृद्धाश्च तद्यं अमुहत् भवाम्मोहं गतम् । इतरो जनः राक्षसीबालवृद्धभ्योऽन्यः समरौत् आकुष्टवान् ।
11०1रु शन्दे' '२४४३। उतो वृद्धिलुकि हलि ।।३।०९।' ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com