________________
तथा लक्ष्य-रूपे कथानके 'रावण-वधों' नाम सप्तदशः सर्गः- ४३१ ध्वस्तवान् । १६००। मन्थ विलोडने' श्यादिः । भूरिमिश्च प्रभूतैः शरैरतुदत् व्यथितवान् ॥ १४३६-अश्वान् विभीषणो ऽतुनात्
स्यन्दनं चाऽक्षिणोद् द्रुतम् , ॥ ना ऽक्षुभ्नाद् राक्षसो, भ्रातुः
शक्तिं चौदवृहद् गुरुम्. ॥ ९० ॥ अश्वानित्यादि-विभीषणश्चाश्वानतुभ्नात् हतवान् । १६१०।१९। नभ तुभ हिंसायाम्' । स्यन्दनं चाक्षिणोत् भग्नवान् । '१५६१॥ क्षिणु हिंसायाम्' तनादौ । राक्षसो रावणः नाक्षुभ्नात् न क्षोभं गतः । १६१७। क्षुभ सञ्चलने' ज़्यादौ गृह्यते न दिवादौ । भ्रातुर्विभीषणस्य कृते गुरुं शक्तिमुदवृहत् उद्यतवान् । १४३५। वृहू उद्यमने' । तुदादौ । गुरुमिति ५०२। वोतो गुणवचनात् ।४।१।४।' इति विकल्पेन ङीष् ॥ १४३७-तामापतन्तीं सौमित्रिस् त्रिधाऽकृन्तच्छिलीमुखैः, ॥
___ अशब्दायन्त पश्यन्तस् ततः क्रुद्धो निशाचरः ९१ तामित्यादि-तस्योपरि शक्तिमापतन्तीं सौमित्रिः शिलीमुखैस्त्रिधा त्रिप्र. कारं अकृन्तत् छिनवान् । '१५२९। कृती छेदने' तुदादौ । यत्र प्रेक्षकाः पश्यन्तः ते अशब्दायन्त शब्दं कृतवन्तः । 'वीर लक्ष्मण ! साधु कृतम्' इति । २६७३। शब्दवैर-३।१।२७।' इत्यादिना करोत्यर्थे क्यङ् । ततोऽनन्तरं निशाचरः ऋद्धः क्रोधं कृतवान् ॥
कुद्धो निशाचरः किं कृतवानित्याह१४३८-अष्ट-घण्टां महा-शक्तिमुदयच्छन् महत्तराम् , ॥
रामाऽनुजं तया ऽविध्यत् , स महीं व्यसुराश्रयत्.॥ अष्टेत्यादि-अष्टौ घण्टा यस्यां महाशक्तौ तां शक्ति प्रभावेण महत्तरां महती अतिशयेन महाप्रमाणां उदयच्छत् उद्यतवान् । २७४२। समुदाभ्यो यमोऽग्रन्थे १३७५।' इति तङ् न भवति अक–भिप्रायत्वात्। तया च करणभूतया रामानुज लक्ष्मणमविध्यत् विद्धवान् । राममनुजातवानिति । '३०१०। अनौ कर्मणि ।३।२।१००।' इति डः । स च लक्ष्मणो विद्धः व्यसुः विगतप्राणः महीमाश्रयत् आश्रितवान् । भुवि पतित इत्यर्थः ॥ १४३९-राघवस्याऽभृशायन्त सायकास् , तैरुपद्रुतः॥
ततस् तूर्ण दशग्रीवो रण-क्ष्मां पर्यशेषयत्. ॥१३॥ राघवस्येत्यादि-तस्मिन् पतिते राघवस्य सम्बन्धिनो बाणाः अभृशायन्त अभृशा भूशा अभवन् शीघ्रगतयो जाता इत्यर्थः। ततस्तैरुपद्रुतो दशग्रीवः तूष्णीभूस्वा रणक्षमा रणभूमि पर्यशेषयत् त्यक्तवान् । १९९४॥ शिष असर्वोपयोगे' चुरादि। Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com