________________
१३२ भट्टि-काव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे चतुर्थो वर्गः, १४४०-स-स्फुरस्योदकर्षच् च सौमित्रेः शक्तिमग्र-जः, ॥
असिञ्चदोषधीस् ता याः समानीता हनूमता. ॥१४॥ सस्फुरस्येत्यादि-अग्रजश्च रामः सौमित्रेः सस्फुरस्य उच्छवसतः शक्ति हृदयलग्नामुदकर्षत् उत्कृष्टवान् । याश्च हनूमतौषध्यः समानीतास्ता असिञ्चत् वणदेशेषु क्षारितवान् ॥ १४४१-उदजीवत् सुमित्रा-भूर्
भ्राता ऽऽश्लिष्यत् तमायतम् , ॥ सम्यङ् मूर्धन्युपाशिव
दपृच्छच् च निरामयम्. ॥ ९५ ॥ उदजीवदित्यादि-ततः सुमित्राभूलक्ष्मणः उदजीवत् प्रत्युज्जीवितवान् । तं च जीवितं भ्राता रामः आयतं दीर्घकालमाश्लिष्यत् आलिङ्गितवान् । मूर्धनि च सम्यगुपाशिवत् आघातवान् । '१७०। शिघि आघ्राणे'। निरामयं च कुशलमपृच्छत् पृष्टवान् । 'किं व्यपगता पीडा' इति ॥ १४४२-ततः प्रोदसहन् सर्वे योद्धमभ्यद्रवत् परान् , ॥
अकृच्छायत च प्राप्तो रथेना ऽन्येन रावणः.९६ तत इत्यादि-पुनः सर्व एव रामादयो योद्धं प्रोदसहन प्रोत्साहितवन्तः । १९४६। सह मर्षणे' इति चौरादिकः परस्मैपदी । 'आभूषाद्वा' इति णिज् न भवति । नतु भौवादिकः तस्यात्मनेपदित्वात् । रावणश्चान्येन रथेन प्राप्तः सन् परानुत्सहतोऽभ्यद्रवत् भभिमुखं गतवान् । अकृच्छ्रायत च कृच्छ्राय पापाय कर्मणे क्रमितवान् । 'सत्रकक्षकष्टकृच्छ्रगहनेभ्यः कण्वचिकीर्षायामिति वक्तव्यम्' इति क्यछ । कण्वचिकीर्षा पापचिकीर्षा ॥ १४४३-'भूमि-ठस्या ऽसमं युद्धं रथ-स्थेने'ति मातलिः॥
आहरद् रथमत्युग्रं स-शस्त्रं मघवा ऽऽज्ञया.॥९७॥ भमिश्ठस्येत्यादि-भूमिष्ठस्य रामस्य । '२९१४। अम्बाम्ब-1८।३।९।' हुति मूर्धन्यः । रथस्थेन रावणेन सह युद्धमसममतुल्यमयुक्तमिति निरूपितवतो मघवतः इन्द्रस्य आज्ञया मातलिः सशस्त्रं रथमत्युग्रमाहरत् आनीतवान् ॥ १४४४-सो ऽध्यष्ठीयत रामेण, शस्त्रं पाशुपतं ततः॥
निरास्यत दशाऽऽस्यस् , तच्छेकाऽस्त्रेणाजयन् नृपः.॥ सोऽध्यष्ठीयतेत्यादि-स रथो रामेणाध्यष्ठीयत अध्यासितः। कर्मणि लङ् । २४६२। घु-मा-स्था-६४।६६।' इतीत्वम् । '२२७०। उपसर्गात्-1८।३।६५।' इत्यादिना षस्वमवयवायेऽपि । ततोऽनन्तरं दशास्यः पाशुपतमस्त्रं निरास्यत क्षिप्त
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com