Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji
View full book text
________________
तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण-चधों' नाम पञ्चदशः सर्गः- ३८५ वान् । स्तृणातेणौँ चङि रूपम् । '२५६६ । अत् स्मृ-दृ-स्वर-७४१९५।' इत्या. दिना अत्वम् । तांश्च भक्षयन्नपि क्रूरः नाताप्र्सीत् न तृप्तः । १२७१॥ तृप प्रीणने' पुषादिः। 'स्पृश-मृश-कृष-तृप-दृपां च्लेः सिज्वा' इति पक्षे सिन् । प्लवङ्गमांश्च घ्नन् हिंसन् नाश्रमत् न श्रान्तवान् । '१२८०। श्रमु तपसि खेदे च' इति खेदे पुषादित्वादङ् ॥ १२३०-न योद्धम॑शकन् केचिन् , ना ऽढौकिषत केचन, ॥
प्राणशन नासिकाभ्यांच, वक्रेण च वनौकसः. ४९ न योद्धमित्यादि-तेषां मध्ये केचिद्वनौकसो वानरा योढुं नाशकन् न शक्ता भवन् । लदित्वादङ् । केचिन्नाढौकिषत न ढौकन्ते स्म । ये तु तेन पदेन क्षिप्तास्ते नासिकाभ्यां नासिकाविवराभ्यां वक्रेण च प्राणशन् प्रनष्टाः । निःसृता इत्यर्थः । नशेः पुषादित्वादङ् । '२२८७। उपसर्गात्-८।४।१४।' इत्यादिना णत्वम्॥ १२३१-उदरे चा ऽजरन्नन्ये तस्य पाताल-सन्निभे, ॥
__ आकन्दिषुः, सखीनाह्वन् , प्रपलायिषताऽस्विदन्. उदरे चेत्यादि-अन्ये च तस्योदरे पातालसन्निभे सदृशे अजरन् जीर्णाः । '२२९१। जु-स्तम्भु-३।११५८।' इत्यादिना ऽङ् । २४०६। ऋदृशो ऽडि गुणः ३७।४।१६।' आक्रन्दिषुः आक्रन्दितवन्तः । सखीन् मित्राणि आह्वन् आहूतवन्तः । '२४१८। लिपि-सिचि-३।११५३।' इत्यादिनाङ् । प्रपलायिषत प्रपला. यन्ते स । पलायमानाश्चास्विदन् प्रस्विन्नाः। पुषादित्वादङ् ॥
युग्मम्१२३२-रक्तमश्श्योतिषुः क्षुण्णाः , क्षताश् च कपयोऽतृषन् , ॥
उपास्थायि नृपो भग्नरसौ सुग्रीवमैजिहत् ॥५१॥ रक्तमित्यादि-अन्ये क्षुण्णाः सन्तः रक्तमभ्योतिषुः श्योतन्ति स्म १२२६९। इरितो वा ।३।११५७।' इत्यङभावपक्षे रूपम् । क्षताश्च खण्डिता अतृषन् तृषन्तिम । '१३०७। जितृषा पिपासायाम् ।' पुषादित्वादङ् । नृपो रामस्तैभग्नैरुपास्थायि उपस्थापितः । अन्तर्भावितो व्यर्थः । कर्मणि चिण् । असौ रामः सुग्रीवमैजिहत् योद्धमीहां कारितवान् । ईहतेय॑न्ताञ्चङि २२४३॥ द्विर्व. चनेऽचि ।।११५९।' इति स्थानिवद्भावात् द्वितीयस्य द्विवचनम् । आट् । वृद्धिः । यो मिति वक्ष्यमाणेन योज्यम् ॥ १२३३-योद्धं सो ऽप्यरुषच्छत्रोरैरिरच् च महा-द्रुमम् ॥
तं प्राप्तं प्रासहिष्टाऽरिः, शक्तिं चौग्रामुंदग्रहीत्. ५२ यो मित्यादि-सोऽपि सुग्रीवः अरुषत् क्रुध्यति स्म । १७९८। रुष रोषे' पुषादिः । शत्रोश्च द्रुममैरिरत् क्षिप्तवान् । १९४७। ईर क्षेपे' इति स्वार्थिकण्य
भ० का० ३३ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514