Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 454
________________ तथा लक्ष्य-रूपे कथानके 'रावण-वधों' नाम सप्तदशः सर्गः- ४२१ दोषैरित्यादि-एमिर्दोषैस्तव पिता रावणः अरमत क्रीडितवान् । यदोषैमैया अत्यज्यत । कर्मणि लङ् । ततः पितुर्दोषप्रकाशनवचनादनन्तरम् । रावणिरिति वक्ष्यमाणेन संवन्धः।अरुष्यत् रुष्टः । 'रुष रुष्टौ' । अनर्दच विस्फूर्जितवांश्च ॥ १३८७-शरैरताडयद् बन्धु, पञ्च-विंशतिभिर नृपम् ॥ रावणिस् तस्य सौमित्रिरमश्नाच् चतुरो हयान्. ४१ शरैरित्यादि-बन्धुं विभीषणं द्विविंशतिभिरडातयत् । चत्वारिंशतेत्यर्थः । द्वे विंशती येषां शराणामिति बहुव्रीहिः । एवं च ८०८। यष्टनः संख्यायाम्।६।३।४७।' इस्यात्वं न । तथा पञ्चविंशतिभिः शरैर्नृपं लक्ष्मणं अताडयत् । शतेनेत्यर्थः । द्वौ च विंशतिश्च पञ्चविंशतिश्चेत्यस्मिन् व्याख्याने द्वाविंशत्या पञ्चविंशत्येति च प्राप्नोति । सौमित्रिस्तु तस्य रावणेश्चतुरो हयान् बाणैरमन्नात् । '९०५। मथे. विलोडने' इति त्यादौ ॥ १३८८-सारथिं चा ऽलुनाद् बाणैरभनक् स्यन्दनं तथा, ॥ सौमित्रिमकिरद् बाणैः परितो रावणिस् ततः. ४२ सारथिमित्यादि-तस्य रावणेः सारथिं चालुनात् छिन्नवान् । '२५५८॥ प्वादीनां हवः ।७।३।१०।। तथा स्यन्दनमभन भनवान् । '१५४७। भो आमर्दने' इति रुधादिः । ततोऽनन्तरं रावणिः सौमित्रिं परितः समन्तात् बाणैरकिरत् छादितवान् ॥ १३८९-तावस्फावयतां शक्ति, बाणांश् चाऽकिरतां मुहुः.॥ वारुणं लक्ष्मणोऽक्षिप्यदक्षिपद् रौद्रमिन्द्रजित्.४३ तावित्यादि-ताविन्द्र जिल्लक्ष्मणौ शक्तिं सामर्थ्यमस्फावयतां वर्धितवन्तौ । '२५९७। स्फायो वः ।७।३।४।' बाणांश्च मुहुरकिरतां विक्षिप्तवन्तौ । वारुणमस्त्रं लक्ष्मणोऽक्षिप्यत् । देवादिकस्य रूपम् । इन्द्रजिद्रौद्रं पाशुपतमक्षिपत् क्षिप्तवान् । तौदादिकस्य रूपम् ॥ १३९०-ते परस्परमासाद्य शस्त्रे नाशमंगच्छताम् , ॥ आसुरं राक्षसः शस्त्रं ततो घोर व्यस यत्,॥४४॥ ते परस्परमित्यादि-ते शस्त्रे परस्परमासाद्य प्राप्य नाशमगच्छतां नाशं गते । ततस्तन्नाशादनन्तरं राक्षसो रावणिः आसुरं असुरदैवतं शस्त्रं घोरं भीषणं व्यसर्जयत् क्षिप्तवान् ॥ १३९१-तस्मान् निरपतद् भूरि शिला-शूलेष्टि-मुद्गरम् ॥ माहेश्वरेण सौमित्रिरस्तनात् तत् सुदुर्जयम्॥४५॥ तस्मादित्यादि-तस्मादासुरादनात शिलालेष्टिमुद्रं निरपतत् । इष्टिः भ० का० ३६ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514