________________
तथा लक्ष्य-रूपे कथानके 'रावण-वधों' नाम सप्तदशः सर्गः- ४२१ दोषैरित्यादि-एमिर्दोषैस्तव पिता रावणः अरमत क्रीडितवान् । यदोषैमैया अत्यज्यत । कर्मणि लङ् । ततः पितुर्दोषप्रकाशनवचनादनन्तरम् । रावणिरिति वक्ष्यमाणेन संवन्धः।अरुष्यत् रुष्टः । 'रुष रुष्टौ' । अनर्दच विस्फूर्जितवांश्च ॥ १३८७-शरैरताडयद् बन्धु, पञ्च-विंशतिभिर नृपम् ॥
रावणिस् तस्य सौमित्रिरमश्नाच् चतुरो हयान्. ४१ शरैरित्यादि-बन्धुं विभीषणं द्विविंशतिभिरडातयत् । चत्वारिंशतेत्यर्थः । द्वे विंशती येषां शराणामिति बहुव्रीहिः । एवं च ८०८। यष्टनः संख्यायाम्।६।३।४७।' इस्यात्वं न । तथा पञ्चविंशतिभिः शरैर्नृपं लक्ष्मणं अताडयत् । शतेनेत्यर्थः । द्वौ च विंशतिश्च पञ्चविंशतिश्चेत्यस्मिन् व्याख्याने द्वाविंशत्या पञ्चविंशत्येति च प्राप्नोति । सौमित्रिस्तु तस्य रावणेश्चतुरो हयान् बाणैरमन्नात् । '९०५। मथे. विलोडने' इति त्यादौ ॥ १३८८-सारथिं चा ऽलुनाद् बाणैरभनक् स्यन्दनं तथा, ॥
सौमित्रिमकिरद् बाणैः परितो रावणिस् ततः. ४२ सारथिमित्यादि-तस्य रावणेः सारथिं चालुनात् छिन्नवान् । '२५५८॥ प्वादीनां हवः ।७।३।१०।। तथा स्यन्दनमभन भनवान् । '१५४७। भो आमर्दने' इति रुधादिः । ततोऽनन्तरं रावणिः सौमित्रिं परितः समन्तात् बाणैरकिरत् छादितवान् ॥ १३८९-तावस्फावयतां शक्ति, बाणांश् चाऽकिरतां मुहुः.॥
वारुणं लक्ष्मणोऽक्षिप्यदक्षिपद् रौद्रमिन्द्रजित्.४३ तावित्यादि-ताविन्द्र जिल्लक्ष्मणौ शक्तिं सामर्थ्यमस्फावयतां वर्धितवन्तौ । '२५९७। स्फायो वः ।७।३।४।' बाणांश्च मुहुरकिरतां विक्षिप्तवन्तौ । वारुणमस्त्रं लक्ष्मणोऽक्षिप्यत् । देवादिकस्य रूपम् । इन्द्रजिद्रौद्रं पाशुपतमक्षिपत् क्षिप्तवान् । तौदादिकस्य रूपम् ॥ १३९०-ते परस्परमासाद्य शस्त्रे नाशमंगच्छताम् , ॥
आसुरं राक्षसः शस्त्रं ततो घोर व्यस यत्,॥४४॥ ते परस्परमित्यादि-ते शस्त्रे परस्परमासाद्य प्राप्य नाशमगच्छतां नाशं गते । ततस्तन्नाशादनन्तरं राक्षसो रावणिः आसुरं असुरदैवतं शस्त्रं घोरं भीषणं व्यसर्जयत् क्षिप्तवान् ॥ १३९१-तस्मान् निरपतद् भूरि शिला-शूलेष्टि-मुद्गरम् ॥
माहेश्वरेण सौमित्रिरस्तनात् तत् सुदुर्जयम्॥४५॥ तस्मादित्यादि-तस्मादासुरादनात शिलालेष्टिमुद्रं निरपतत् । इष्टिः
भ० का० ३६ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com