SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ ४२३ भट्टिकाव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे चतुर्थो वर्गः, प्रहरणविशेषः । तच्चासुर सुदुर्जयं सौमित्रिः माहेश्वरेण अस्तनात् स्तम्भितवान् । '२५५५। स्तम्भु-३।११८२॥' इत्यादिना भा.चकारात् श्रुश्च ॥ १३९२-ततो रौद्र-समायुक्तं माहेन्द्र लक्ष्मणोऽस्मरत्, ॥ तेनाऽऽगम्यत घोरण, शिरश चा ऽहियत द्विषः४६ तत इत्यादि-ततोऽनन्तरं रौद्रसमायुकं रौद्रास्त्रेण सहितं माहेन्द्रमस्त्रं लक्ष्मणो ऽस्मरत् चिन्तितवान् । तेन सरणादेवागम्यत आगतम् । भावे लङ्। तस्य द्विषः शत्रोः शिरश्चाहियत छिन्नम् । कर्मणि लङ् ॥ १३९३-अतुष्यन्नमराः सर्वे, प्राहृष्यन् कपि-यूथपाः, ॥ पर्यध्वजत सौमित्रिं, मू_जिघ्रच् च राघवः ॥४७॥ अतुष्यन्नित्यादि-तस्मिन् मृते अमरा देवाः अतुष्यन् तुष्टाः । कपियू. थपाः प्राहृष्यन् प्रहृष्टाः । राघवश्व सौमित्रिं पर्यध्वजत भाश्लिष्टवान् । '२३९६॥ दंश-सञ्ज-६४१२५।' इत्यनुनासिकलोपः । '२२७६ । प्राक् सितादइव्यवायेऽपि 1८।३।६३।' इति वचनात् । '२२७५। परि नि-विभ्यः-८३७०।' इत्यादिना पत्वम् । मूर्यजिघ्रच आघ्रातवान् ॥ १३९४-अरोदीद् राक्षसाऽनीकमरोदन नृ-भुजां पतिः, ॥ मैथिल्यै चा ऽशपद्धन्तुं तां प्राक्रमत चाऽऽतुरः.४८ अरोदीदित्यादि-राक्षसानीकं राक्षससैन्यमरोदीत् रुदितम् । '२४७५॥ रुदश्च पञ्चभ्यः ।।३।९८ ।' इतीट । नृभुजां पतिः रावणः अरोदत् रुदितः । '२४७६। अड् गार्यगालवयोः ।।३।९९।' इत्यडागमः । मैथिल्यै चाशपत् भाक्रुष्टवान् । सर्वदोषस्य मूलमिति । ५७२। श्लाघ-हु-१॥३४॥' इत्यादिना कर्मणि सम्प्रदानसंज्ञा । तां च हन्तुं आतुरो मन्युक्षतः प्राक्रमत प्रारब्धवान् । '२७१५। प्रोपाभ्याम्-१॥३॥४२॥' इति तङ् ॥ १३९५–'अ-युक्तमिदमि' त्यन्ये तमाप्ताः प्रत्यवारयन्, ॥ न्यरुन्धंश् चाऽस्य पन्थानं बन्धुता शुचमारुणत्.४९ अयुक्तमित्यादि-अन्ये आताः राक्षसाः अयुक्तमेतदिति मन्यमानाः तं तथाविधं प्रत्यवारयन् भावार्य स्थिताः । १९५०। वृन भावरणे' चुरादिः । न्यरुन्धंश्च हस्तपादादिग्रहणेन रुद्धवन्तः । बन्धुता बन्धुसमूहः । अस्य शोकमारुणत अपनीतवती । हरड्यादि लोपः । धकारस्य जश्त्वम् ॥ १३९६-आस्फायता ऽस्य वीरत्वममर्षश् चा ऽप्यतायत ॥ रावणस्य ततः सैन्यं समस्तमयुयुत्सयत्. ॥५०॥ आस्फायतेत्यादि-अथ विरुद्धशोकस्य रावणस्य वीरत्वं शौर्य भास्फायत वृद्धिं गतम् । भमर्षश्च क्रोधः अतायत विस्तारं मतः । ततः स रावणः समवं सैन्यं अयुयुत्सयत् युयुत्समानं प्रयोजितवान् । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy