________________
तथा लक्ष्य-रूपे कथानके 'रावण-वधो' नाम सप्तदशः सर्गः- ४२३
१३९७-अग्नीनवरिवस्यंश् च ते, ऽनमस्यश् च शङ्करम् , n
द्विजानप्रीणयन् शान्त्यै यातुधाना भवद्-भियः.५१ अग्नीनित्यादि-ते यातुधानाः भवद्भियः उत्पद्यमानभीतयः । अग्नीनव. रिवस्थन् परिचारितवन्तः । २६७५ । नमोवरिवश्चित्रङः क्यच् ।३।१।१९।' इति वरिवसः परिचर्यायामिति क्यच् । तदन्तालङ् । शङ्करं च महादेवं अनमस्यन् पूजितवन्तः । अत्र नमसः पूजायां क्यच् । द्विजांश्च शान्त्यै शान्त्यर्थमप्रीणयन् प्रीणितवन्तः । 'धूञ्-पीजोर्नुग्वक्तव्यः' । १३९८-परितः पर्यवाद् वायुराज्य-गन्धिर मनो-रमः,॥
___ अश्रूयत स-पुण्याहः स्वस्ति-घोषः समुच्चरन्.॥५२॥ परित इत्यादि-अग्निसन्तर्पणादाज्यगन्धिः आज्यस्य गन्धो यस्मिन्वायौ स वायुमनोरमः परितः सर्ववेश्मसु पर्यवात् वाति स । स्वस्तिघोषश्च सपुण्यहः पुण्याहशब्देन सह समुच्चरमश्रूयत श्रूयते स । कर्मणि लङ् ॥ १३९९-योद्धारो ऽबिभरुः शान्त्यै साऽक्षतं वारि मूर्धभिः,॥
रत्नानि चाऽददुर् गाश् च, समवाञ्छन्नथाऽऽशिषः. योद्धार इत्यादि- योद्धारः शान्त्यै शान्त्यर्थं साक्षतं अक्षततण्डुलैर्युक्त सलाजं च वारि जलं मूर्धमिरबिभरुः दधति स्म । '२२२६। सिजभ्यस्त।३।१०९।' इति झेर्नुस् । '२४९६। भृक्षामित् ।७।४।७६।' इतीत्वम् । रत्नानि गाश्वाददुः दत्तवन्तः । आशिषश्च तेभ्यः समवान्छन् कातिवन्तः । २१७॥ वाछि इच्छायाम् ॥ १४००-अदिहश् चन्दनैः शुभैर्, विचित्रं समवस्त्रयन्, ॥
अधारयन् सजः कान्ता, वर्म चाऽन्ये ऽदधुर् द्रुतम्. अदिहनित्यादि-शुभैः शुक्लवर्णैश्चन्दनैः अदिहन् गात्राणि लिसवन्तः । १०४॥ दिह उपचये' । विचित्रं शोभनं समवस्त्रयन् आच्छादितवन्तः । २६७७। मुण्ड-मिश्र-३।१।१।' इत्यादिना वस्त्रारसमाच्छादने णिच् । कान्ताः शुभ्राः सजः अधारयन् धारितवन्तः । '९६६। इन धारणे'। भण्यन्तस्य प्रयोग एव नास्ति । अन्ये च वर्माणि कवचानि द्रुतमदधुः धारितवन्तः ॥ १४०१-समक्ष्णुवत शस्त्राणि, प्रामृजन खड्ग-संहतीः ॥
गजाऽऽदीनि समारोहन ,प्रातिष्ठन्ता ऽऽथ सत्वराः. समश्णुवतेत्यादि-शस्त्राणि समक्ष्णुवत । १११०। क्ष्णु तेजने' । २७३६॥ समः क्ष्णुवः ।।३।६५।' इति तङ् । खड्गसंहतीः प्रामृजन् शोधितवन्तः । मृजेरजादौ विभाषा वृद्धिः । गजादीनि यानानि समारोहन भारूढाः । गजा. दिष्विति पाठान्तरम् । तत्राधिकरणत्वं विवक्षितम् । अथानन्तरमारूढाः सस्वराः प्रातिष्ठन्त प्रस्थिताः । '२६८९। समव-प्र-विभ्यः स्थः ।।३।२२।' इति तङ् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com