________________
४२० भट्टिकाव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे चतुर्थो वर्गः,
न
६' इत्यादिना मा मा म व्यतिक्रामः
सत्यं समभवं वंशे
पापानां रक्षसामहम्. ॥ ३६ ॥ मिथ्येत्यादि-मिथ्या मृषा मा म व्यतिक्रामः मा परिभूः । '२३२२ । क्रमः-७।३।७६।' इत्यादिना शिति दीर्घः । शीलं स्वभावः मा न बुध्यथाः मा न बुद्धास्त्वं अपि तु ज्ञातवानसि । '२२२०। मोत्तरे लङ् च ।३।३।१७६।। पापानां रक्षसां वंशे ऽहं सत्यं समभवं संभूत इति ॥ १३८३-न त्वजायत मे शीलं
तादृग् , यादृक् पितुस् तव.॥ क्षयाऽऽवहेषु दोषेषु
वार्यमाणो मया ऽरमत् ॥ ३७ ॥ नत्वित्यादि-यद्यप्यहं राक्षसकुले जातस्तथापि तव पितुर्यादृक् शीलं स्वभावस्तादृक् मे न त्वजायत नैवाभूत् यतो ऽसौ क्षयमावहन्तीति क्षयावहाः । पचाद्यच् । तेषु दोषेषु परस्त्रीहरणादिषु मया वार्यमाणोऽपि । दशग्रीव इति संबन्धः । अरमत् रतिं कृतवान् । '२७४९। व्याङ् परिभ्यो रमः ।१।३।८३।' इति परस्मैपदम् ॥ १३८४-दश-ग्रीवो ऽहमैतस्मादत्यजं, न तु विद्विषन्.॥
पर-स्वान्यर्जियन् , नारीरन्यदीयाः परामृशत्. ३८ दशाग्रीव इत्यादि-एतस्मात्कारणादहं रावणमत्यजं त्यक्तवानसि न पुनर्द्विषन् अमित्रीभवन् । '३१११। द्विषोऽमित्रे ।३।२।१३१॥' इति शतृ प्रत्ययः । तान् दोषानाह-परस्त्रानि परवित्तानि आर्जयन् अन्यैाहितवान् । '२३३॥३४॥ अर्ज सर्ज अर्जने' इति भ्वादौ हेतुमणिच् । १८५८। अर्ज प्रतियत्ने' इति चौरादिकस्य वा रूपम् । अन्यदीयाः नारीश्च परामृशत् स्पृष्टवान् । '१५१९। मृश आमर्शने' इति तुदादावनुदात्तेत् ॥ १३८५-व्यजिघृक्षत् सुरान् नित्यं, प्रामाद्यद् गुणिनां हिते,॥
___ आशङ्कत सुहृद्-बन्धून-वृद्धान् बहमन्यत. ॥३९॥ व्यजिघृक्षदित्यादि-सुरान् नित्यं व्यजिघृक्षत विग्रहीतुमैच्छत् । गुणिनां माल्यवत्प्रभृतीनां यदुक्तं हितं तस्मिन् विषये प्रामाद्यत् प्रमादं गतः । १२८४॥ मदी हर्षे' । '२५१९। शमामष्टानाम्-७।३।७४।' इति दीर्घः । सुहृदो बन्धुंश्च सुहृद्वन्धून् आशङ्कत विकल्पितवान् । अवृद्धान् अविदुषः प्रहस्तादीन् बह्नमन्यत श्वाधितवान् ॥ १३८६-दोषररमतैभिस् ते पिता ऽत्यज्यत यैर् मया.॥
ततो-रुष्यदनर्दच् च, द्वि-विंशतिभिरैव च ॥४०॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com