________________
तथा लक्ष्य-रूपे कथानके 'रावण-वधों' नाम सप्तदशः सर्गः- ४१९ ऽनुदात्तेत् इह च देहः सुरामिषैरपुष्यद् वृद्धिं गतः। पुषिदेवादिकः । देहम. पुष्य इति पाठान्तरम् । तत्र देहं पोषितवानसि । अन्तर्भावितण्यर्थो द्रष्टव्यः ॥ १३७९-इहा ऽजीव, इहैव त्वं क्रूरमारभथाः कथम् ; ॥
नाऽपश्यः पाणिमा त्वं, बन्धु-त्वं नाऽप्यपैक्षथाः. ३३ इहेत्यादि-इहाजीवः जीवितो ऽसि कथमिहैव त्वं क्रूरं कर्म आरभथाः मारब्धवानसि । आई पाणिं च नापश्यस्त्वं न दृष्टवानसि । यावता कालेन भुक्त्वा पाणिः शुष्यति तावन्तमपि कालं नापेक्षितवानसीत्यर्थः । आस्तां तावदेतत् । बन्धुत्वमपि एकगोत्रत्वमपि नापैक्षथाः ॥ १३८०-अ-धर्मान् ना ऽत्रसः पाप!
लोक-वादान् न चा ऽबिभेः, ॥ धर्म-दूषण! नूनं त्वं
ना जाना, ना ऽशृणोरिदम् ॥ ३४ ॥ अधर्मादित्यादि-हे पाप ! अधर्मादपि नात्रसः न वस्तो ऽसि । ११९२। त्रसी उद्वेगे' । दिवादौ । २३२१॥ वा भ्राश-३।११७०।' इत्यादिना पक्षे शप् । लोकवादात् जनापवादात् न चाबिभेः न भीतो ऽसि । श्लौ द्विवचनम् । धातोगुणः । ५८८। भी-त्रार्थानाम्-१।४।२५।' इत्यपादानसंज्ञा । हे धर्मदूषण । धर्मस्य दूषण धर्मोच्छेदक । अतिविपरीते स्थितत्वात् । १२६१। दुष वैकृत्ये'। २६०४॥ दोषो णौ ।६।४।९०।' इत्युपधाया ऊत्वम् । दूषयतीति दूषणः । '२८४१॥ कृत्यल्युटो बहुलम् ।३।३।११३॥' इति कर्तरि ल्युट । न तु नन्द्यादिपाटे युः। तत्र हि 'नन्दि वाशि-मदि-दूषि-साधि-पचि शोधि-रोचिभ्यो ण्यन्तेभ्यः पूजायाम्' इत्युक्तम् । न चात्र पूजा गम्यत इति । नूनं अवश्यं त्वं नाजानाः स्वयमिदं न ज्ञातवानसि । १६०४। ज्ञा आवबोधने ।' ज्यादावुदात्तेत् । २५११॥ ज्ञा-जनोर्जा १७३१७९' । इदमन्यतोऽपि नाशगोः द्विषन्यो न श्रुतवानसि । '२३८६। श्रुवः श च ।३।११७४।' ॥
किं तदित्याह१३७१-निराकृत्य यथा बन्धून् लघु-त्वं यात्य-संशयम्.' ।
पितृव्येण ततो वाक्यमभ्यधीयत शक्रजित् ॥३५॥ निराकृतेत्यादि-यथा बन्धून निराकृत्य परित्यज्य [लघुत्वम्] लघुतां यात्यसंशयमसन्देहम् । ततः पुत्रोक्तेरनन्तरं पितृव्येण विभीषणेन शक्रजिद्वाक्यमभ्यधीयत अभिहितः । कर्मणि लङ् । '२४६२। घु-मास्था-६।४।६६।' इतीत्वम् ॥ : १३८२-'मिथ्या मा स्म व्यतिक्रामो,
मच्छीलं मा न बुध्यथाः॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com