________________
४१८ भट्टि-काव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे चतुर्थो वर्गः, श्रुत्वा राघवः सौमित्रेयूंथपानां च गन्तुमाज्ञां प्रायच्छत् दत्तवान् । '९९६ । दाण दाने' । '२३६०। पा-घ्रा ।।३।७४।' इत्यादिना यच्छादेशः ॥ १३७४-तां प्रत्यैच्छन् सु-संप्रीतास् ततस् ते स-विभीषणाः, ॥
निकुम्भिलां समभ्यायन, न्यरुध्यन्त च राक्षसैः २८ तामित्यादि-ततस्ते सविभीषणाः सुसंप्रीतास्तामाज्ञां प्रत्यैच्छन् प्रतीष्टवन्तः प्रतिगृहीतवन्तः । १४४०। इषु इच्छायाम्' । २४००। इषु-गमि-यमां छः ।७।३।७७।' ते च निकुम्भिलां समभ्यायन् सममिगताः। '५०८। अय गतौ ।' तत्र च ये दिक्पालाः राक्षसाः तैन्यरुध्यन्त रुद्धाः प्रवेष्टुं पन्थानं न लब्धवन्तः । कर्मणि लङ् ॥ १३७५-दिक्-पालैः कदनं तत्र सेने प्राकुरुतां महत् , ॥
ऐतां रक्षांसि निर्जित्य द्रुतं पौलस्त्य-लक्ष्मणौ, ॥२९॥ दिक्पालैरित्यादि-तत्र निकुम्भिलोद्देशे उभे अपि सेने महत्कदनं विनाशनं युद्धं प्राकुरुतां कृतवन्तौ । तानि रक्षासि निर्जित्य पौलस्त्यलक्ष्मणौ द्रुतमैतां गतवन्तौ । '१११८। इण् गतौ ।' भाद वृद्धिः ॥ १३७६-तत्रैन्द्रजितमैक्षेतां कृत-धिष्ण्यं समाहितम्. ॥
___ सो ऽजुहोत् कृष्णवमानमामनन् मन्त्रमुत्तमम्. ३० तत्रेत्यादि-तत्र निकुम्भिलायां तावक्षेतां दृष्टवन्तौ । इन्द्रजितं कृतधिष्ण्यं कृताभ्यगारम् । समाहितं एकाग्रमानसम् । स इन्द्रजित् कृष्णवनिमजुहोत् हुतवान् । मन्त्रमुत्तममामनन् आवर्तयन् । '९९५। ना अभ्यासे ।' शतरि '२३६९। पा-घ्रा-७३।७४।' इत्यादिना मनादेशः ॥ १३७७-अध्यायच् छऋजिद् ब्रह्म, समाधेरैचलन् न च. ॥
तमाह्वयत सौमित्रिरंगजेच च भयंकरम्. ॥ ३१॥ अध्यायदित्यादि-शकजिदिन्द्रजित्परं ब्रह्माध्यायत् चिन्तितवान् । ९७४। ध्यै चिन्तायाम्' आत्वं शिति । न च समाधेश्चित्तवृत्तिनिरोधादचलत् चलितवान् । तं तथाभूतमिन्द्रजितं सौमित्रियुद्धायाह्वयत आहूतवान् । भयंकर चागर्जत् शब्दितवान् ॥ १३७८-अकुप्यदिन्द्रजित् तत्र, पितृव्यं चाऽगदद् वचः॥
'त्वमत्रा जायथा, देह इहा ऽपुष्यत् सुराऽमिषैः,३२ अकुप्यदित्यादि-तत्र तस्मिन्नाह्वाने कृतवति गर्जिते च सति अकुप्यत् क्रुद्धः १३१२। कुप क्रोधे' देवादिकः। पितृव्यं च पितृभ्रातरं विभीषणम् । पितृशब्दाद् भ्रातरि व्यन्निपातितः । वचो वक्ष्यमाणमगदत् उक्तवान् । मन्त्रास्मिन्
राक्षसकुले त्वमजायथाः जातो ऽसि । '१२२४। जनी प्रादुर्भावे ।' देवादिको Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com