________________
तथा लक्ष्य-रूपे कथानके 'रावण-वधो' नाम सप्तदशः सर्गः- ४१७ यत्कृत इत्यादि-यस्याः कृते यन्निमित्तं [ भरीन् ] परान् अशोकवनिका. स्थितान् व्यगृह्णीम विगृहीतवन्तः । '२२२० । नित्यं डितः ।३।४।९९।' इति लङि उत्तमस्य लोपः । समुद्रं चातराम तीर्णवन्तः । २१७०। अतो दी? यनि 1७।३।१०१।' इति दीर्घः । सा सीता हतेति वदन्मरुत्सुतः राममुपातिष्ठत् ढौकितवान् । अत्र यमुना गङ्गामुपतिष्ठत इत्येवं सङ्गतकरणम् । उपश्लेषो नास्तीति ‘उपाद्देवपूजा-' इत्यादिना तङ् न भवति ॥ १३७०-ततः प्रामुह्यतां वीरौ राघवावरुतां तथा, ॥
उष्णं च प्राणतां दीर्घमुच्चैर् व्याक्रोशतां तथा.॥२४॥ तत इत्यादि-ततो हनूमद्वचनानन्तरं राघवौ वीरौ प्रामुहतां मोहं गतौ तथा ऽरुतां क्रन्दितवन्तौ । ११०७। रु शब्दे'। '२४४३। उतो वृद्धिः-७।३।०९।' न भवति तत्रापि 'सार्वधातुके' इत्यनुवर्तते । तथा दीर्घमुष्णं च प्राणितां निश्वसितवन्तौ । ११४४। अन प्राणने' । '२४७४। 'रुदादिभ्यः सार्वधातुके । ७।२।७६।' इतीद । तथा उच्चैराक्रोशतां 'हा सीते' इति आइतवन्तौ ॥ १३७१-तावभाषत पौलस्त्यो 'मा स्म प्ररुदितं युवाम्, ॥
ध्रुवं स मोहयित्वाऽस्मान् पापोऽगच्छनिकुम्भिलाम्.॥ तावित्यादि-पौलस्त्यो विभीषण आगत्य तौ तथाभूतावभाषत उक्तवान् । युवां मा म प्ररुदितं मारोदिष्टम् । '२२२०। सोत्तरे लङ् च ।३।२।१७६।' इाते लङ् । यतो ध्रुवमवश्यं स इन्द्रजित् पापः अस्मान् मोहयित्वा मायया विमोह्य । मुहेरकर्मकत्वाद् '५४०। गति-बुद्धि-1१।४।५२।' इत्यादिना कर्मसंज्ञा। निकुम्भिलामग्निगृहमगच्छत् गतवान् । तत्र भूतानद्यतन एव लङ् ॥ १३७२-मा स्म तिष्ठत, तत्र-स्थो वध्यो ऽसाव-हुताऽनलः,॥ ____ अस्त्रे ब्रह्म-शिरस्युगे स्यन्दने चा ऽनुपार्जिते. ॥२६॥
मा स्मेत्यादि-मा स तिष्ठत मा विलम्बध्वं, गच्छत । २२२०। सोत्तरे लङ् च ।४।३।१७६।' यतस्तत्रस्थो निकुम्भिलास्थो ऽसावहुतानलः अकृताग्निकार्यों वध्यः शक्यो हन्तुम् । '२८२३। शकि लिङ् च ।३।३।१७२।' इति चकारात् '३३१२। कृत्याश्च ।३।३।१७१।' इति वचनात् लङ् । 'कृत्याश्च' इति वचनात् 'हनो वधश्च' इति उपसंख्यानाद्यत् 'कथमहुतानलो वध्य' इति चेत् अस्त्रे ब्रह्मशिरसि ब्रह्मशिरोनाम्नि उने दुष्प्रयोगे स्यन्दने च अनुपार्जितेप्राले सति ॥
कथमुभयं तेनोपाज्यंत इत्याह१३७३-ब्रह्मा ऽदधाद् वधं तस्य तस्मिन् कर्मण्यसंस्थिते' ।
प्रायच्छदाज्ञां सौमित्रे यूथपानां च राघवः ॥२७॥ ब्रह्मेत्यादि-यतस्तस्यां निकुम्भिलायां कर्मण्यसंस्थिते असमाते ब्रह्मा वधं तस्यादधात् धारितवान् । उक्तवानित्यर्थः । श्लौ द्विर्षचनम् । एवं विभीषणवचः Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com