________________
४१६ भट्टिकाव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे चतुर्थो वर्गः,
प्रालोठन्तेत्यादि-तेन क्षताः केचिद्भूमौ प्रालोठन्त । '७४९ लुठ लोठने ।' भुवीतस्ततो व्यभिद्यन्त व्यनीयन्त हताः सन्त इतस्ततो नीताः । कर्मणि लङ् । परितः समन्ताद्रक्तमस्रवन् मुक्तवन्तः । पर्यश्राम्यन् खिन्नाः अतृ. प्यन् पिपासिताः । दिवादित्वात् श्यन् । केचिदम्रियन्त । '२५३८ । म्रियते . ङ्-लिङोश्च ।।३।६।' इति त ङ्॥ १३६५-सौमित्रिराकुलस् तस्मिन् ब्रह्माऽस्त्रं सर्व-रक्षसाम् ॥
निधनाया ऽऽजुहूषत् तं व्यष्टभ्नाद् रघु-नन्दनः. १९ सौमित्रिरित्यादि-तस्मिन् इन्द्रजिति तथाभूते सति सौमित्रिराकुलो व्यस्तचित्तः सर्वरक्षसां निधनाय ब्रह्मास्त्रमाजुहूषत् आह्वातुमैच्छत् । '२४२७॥ अभ्यस्तस्य च ॥११॥३३॥' इति अभ्यस्ताकारस्य ह्वयतेः प्रागेव द्विर्वचनात् सम्प्रसारणम् । तं च सौमित्रिं रघुनन्दनो रामः व्यष्टनात् निवारितवान् 'मा भूद्विभीषणस्यापि नाशः' इति । २५५५। स्तम्भु-स्तम्भु-३।११८२।' इत्यादिना भाप्रत्ययः । '२२७२। स्तम्भेः ।।३।६७।' इति मूर्धन्यः ॥ १३६६-ततो माया-मयीं सीतां घ्नन् खड्नेन वियद्-गतः ॥
अदृश्यतेन्द्रजिद् , वाक्यमंवदत्तं मरुत्-सुतः॥२०॥ तत इत्यादि-ततोऽनन्तरं इन्द्रजित् वियद्गतः आकाशगतः सीता मायामयीं मायानिर्मितां खङ्गेन मन् व्यापादयन्नदृश्यत दृष्टः । कर्मणि लङ् । तथाभूतं राक्षसं मल्सुतो हनूमान् वाक्यमवदत् भाषितवान् ॥ १३६७-'मा ऽपरानोदियं किंचिदभ्रश्यत् पत्युरन्तिकात् , ॥
सीतां राक्षस! मा स्मैनां निगृह्णाः पाप! दुःखिताम्'२१ मापराधोदित्यादि-हे पाप ! राक्षस । सीता पत्युरन्तिकादम्रश्यत् अपगता । इयं भवतो नापराभोत् नापराद्धा । '१३५३। राध साध संसिद्धौ ।' इति स्वादौ । तस्मादेनां दुःखितां मा स निगृह्णाः मा वधीः । '२२४० । सोत्तरे लङ् च ।३।३।१७६।' इति वर्तमाने लङ् ॥ १३६८-'पीडा-करम-मित्राणां कर्तव्यमिति शक्रजित् ॥ ____ अब्रवीत् , खड्ग-कृष्टश् च तस्या मूर्धानमच्छिनत्.२२
पीडाकरमित्यादि-इयमपराद्धा भवतु न वा सर्वथा यदमित्राणां पीडाकरं तदवश्यं कर्तव्यमिति शक्रजिदब्रवीत् उक्तवान् । खड्कृष्टश्च कृष्टः खड्गो येन । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः' । तस्या मूर्धानमच्छिनत् छिन्नवान् । तिपो हलङयादिलोपः । दकारस्य चर्वम् ॥ १३६९-यत्-कृते ऽरीन व्यगृह्णीम, समुद्रमतराम च, ॥
__ सा हते'ति वदन् राममुपातिष्ठन् मरुत्-सुतः ॥२३॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com