________________
तथा लक्ष्य-रूपे कथानके 'रावण-वधो' नाम सप्तदशः सर्गः- ४१५
आस्यन्नित्यादि-प्लवङ्गमा अपि वृक्षानास्यन् क्षिप्तवन्तः । १२०५। असु क्षेपणे' । तथा भूधरैः पर्वतैरधुन्वन् हतवन्तः । 'अधूर्वन्' इति पाठान्तरम् । तत्र '२२६५। उपधायां च ।।२।२८।' इति दीर्घः । क्रोधान्मुष्टिभिरहिंसन् ताडितवन्तः । दशनैर्दन्तैरदशन् खादितवन्तः । '२३९६। दंश-सञ्ज-स्वा शपि ।६।४।२५।' इत्यनुनासिकलोपः ॥ १३६०-प्रादुन्वन् जानुभिस् तूर्णमैतुदंस् तल-कूपरैः, ॥
प्राहिण्वन्नरि-मुक्तानि शस्त्राणि विविधानि च. ॥१४॥ प्रादुन्वनित्यादि-जानुभिस्तूर्णं प्रादुन्वन् पीडितवन्तः १३३६। टुदु उपतापे ।' स्वादिः । तलकूपरैः हस्ततलैः प्रकोष्ठैश्वातुदन् व्यथितवन्तः । अरिभिर्मुक्तानि विविधानि यानि शस्त्राणि तानि प्राहिण्वन् प्रहितवन्तः ॥ १३६१-अतृणेट् शक्र-जिच् छत्रूनभ्राम्यच् च समन्ततः, ॥
अध्वनच च महा-घोरं, न च कंचन नाऽदनोत. १५ अतृणेडित्यादि-ततः शक्रजिदिन्द्र जित् शत्रूनतृणेद हिंसितवान् । तृहेः भम् । तस्यं '२५४५। तृण ह इम् ।७।३।९।' हलङ्यादिलोपः । हकारस्य ढत्वजश्त्वचत्वानि । समन्ततश्चाभ्राम्यत् भ्रान्तवान् । महाघोरं च भीषणं स्वनं अवनत् नादितवान् । न च कंचन नादुनोत् कंचिदपि न नोपतापितवान् अपि तु सर्वानपि पीडितवानित्यर्थः ॥ १३६२-नाऽजानन् सन्दधानं तं, धनुर् नैक्षन्त बिभ्रतम् ॥
नैनचेतन्नस्यन्तं, हतास् तेना ऽविदुर् द्विषः ॥१६॥ नाजानन्नित्यादि-धनुषि शरं सन्दधानमारोपयन्तमिन्द्रजितं नाजानन् न ज्ञातवन्तः । धनुर्बिभ्रतं नैक्षन्त धनुर्धारयन्तं न दृष्टवन्तः । इषून शरानस्यन्तं क्षिप्यन्तं नाचेतन् हस्तलाघवात् न ज्ञातवन्तः । ३९। चिती संज्ञाने' । १३४॥ ङमो हस्वात्-1८।३।३२।' इति डमुट । तेन हताः सन्तो द्विषः अविदुः ज्ञातवन्तः पूर्वोक्तम् । '२२२६। सिजभ्यस्त-विदिभ्यश्च ।३।४।१०९।' इति झेर्जुस् ॥ १३६३-अशृण्वन्नन्यतः शब्दं, प्रपलायन्त चा ऽन्यतः, ॥
आक्रन्दमन्यतोऽकुर्वस् तेनाऽहन्यन्त चाऽन्यतः. १७ अशृण्वन्नित्यादि-अन्यतः अन्यस्मिन् प्रदेशे केचिद् द्विषः शब्दमण्वन् । '२३८६। श्रुवः शृन्च ।३।११७४।' इति शृभावः श्रुप्रत्ययश्च । अन्यत्र स्थिताः प्रपलायन्त पलायिताः । अन्यतो ऽन्यत्र प्रदेशे स्थिताः आक्रन्दं अकु. र्वन रोदनं कृतवन्तः । अन्यतो ऽन्यत्र तेनेन्द्रजिता अहन्यन्त व्यापादिताः । कर्मणि लङ् । सर्वत्राद्यादित्वात्तसिः ॥ १३६४-पालोठन्त, व्यभिद्यन्त, परितो रक्तमस्रवन, ॥
पर्यश्राम्यन्नतृप्यंश् च क्षतास् तेना ऽमियन्त च. १८ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com