________________
४१४ भट्टि-काव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे चतुर्थो वर्गः, हयद्विपं पशुद्वन्द्वस्य विभाषैकवद्भावः । प्रादेकत शब्दितवन्तः । ८॥ द्रेक शब्दोत्साहे' इत्यनुदात्तेत् ॥
१३५५-अ-निमित्तान्यथा ऽपश्यन्नस्फुटद् रवि-मण्डलम् , ॥
औक्षन् शोणितमम्भोदा, वायवोऽवान सु-दुःसहाः॥ अनिमित्तानीत्यादि-अनिमित्तानि कुत्सितनिमित्तानि । नत्र कुत्सा. याम् । गच्छन्तो ऽपश्यन् दृष्टवन्तः । तानि दर्शयति-रविमण्डलमस्फुटत् स्फुटितम् , अम्भोदाः शोणितमोक्षन् वृष्टाः । '७०५। उक्ष सेचने । वायवः सुदुःसहाः प्रचण्डा अवान् वान्ति स्म । शाकटायनमतादन उसादेशः ॥ १३५६-आर्छन् वामं मृगाः कृष्णाः ,
शस्त्राणां व्यस्मरन् भटाः ॥ रक्तं न्यष्ठीवदक्लाम्य
दखिद्यद् वाजि-कुञ्जरम्. ॥१०॥ आच्छनित्यादि-निर्गच्छतां वामपार्श्व कृष्णमृगा आर्छन् गताः । अतः '२६६०। पा-घ्रा-७॥३७८।' इति ऋछादेशः । १३८०। ऋच्छ गतौ' इत्यस्य चा रूपम् । भटाश्च शस्त्राणां व्यस्मरन् विस्मृतवन्तः '६१३॥ अधीगर्थ१२।३।५२।' इति कर्मणि षष्ठी । वाजिकुञ्जरमखिन्नमश्रान्तमपि रक्तं न्यष्ठीवत् । '६०॥ ष्टित्रु निरसने' इति भौवादिकस्य ग्रहणम् (२३२०॥ टिवु-लम-चमां शिति ।।३।७५।' इति दीर्घः । अक्लाम्यत् क्लान्तं च ॥ १३५७-न तानगणयन् सर्वानास्कन्दंश् च रिपून , द्विषः॥ ___अच्छिन्दन्नसिभिस् तीक्ष्णैरभिन्दस् तोमरैस् तथा ११
न तानित्यादि-तान् सर्वानशुभान्नागणयन् नादृतवन्तः किमेतैरिति । अपि तु रिपूनास्कन्दन् अभिगतवन्तः । द्विषो राक्षसांस्तीक्ष्णैरसिभिररीनच्छिन्दन् छिन्नवन्तः । तथा तोमरैस्तीक्ष्णैरभिन्दन् विदारितवन्तः ॥ १३५८-न्यकृन्तंश् चक्र-धाराभिरतुदन शक्तिभिर् दृढम् , ।।
भल्लैर विध्यन्नग्राऽौरतुंहस् तोमरैरलम्. ॥ १२ ॥ न्यकृन्तन्नित्यादि-चक्रधाराभिः न्यकृन्तन् छिन्नवन्तः । मुचादित्वानुम् । शक्तिभिश्च दृढमत्यर्थमतुदन व्यथितवन्तः। भल्लैरविध्यन् ताडितवन्तः । २४१२। अहि-ज्या-६११६' इति सम्प्रसारणम् । उग्रागैस्तीक्ष्णाप्रैस्तोमरैरलं पर्याप्तमतूंहन हतवन्तः। १५४९। तृह हिंसायाम् ।' रुधादित्वात् श्नम् । भल्लोपानुस्वारौ ॥ १३५९-आस्यन् प्लवङ्गमा वृक्षानधुन्वन् भू-धरैर् भृशम् , ॥
__ अहिंसन् मुष्टिभिः क्रोधाददशन् दशनैरपि. ॥१३॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com