________________
तथा लक्ष्य-रूपे कथानके 'रावण-वधो' नाम सप्तदशः सर्गः- ४१३ न्यश्यन्नित्यादि-अभीष्टानि यथानुभावितानि शस्त्राणि न्यश्यन् तेजितवन्तः । १२२०। शो तनूकरणे' '२५१०। ओतः श्यनि ।७।३।७१।' इत्योका. रलोपः । वर्मभिश्च कवचैः समनह्यन् संनद्धाः । शरीराण्यावृतवन्त इत्यर्थः । सुयानानि शोभनयानानि अध्यासत आरूढाः । ५४२। अधिशीङ्-।१।४।४६।' इति कर्मसंज्ञा । तथा द्विषयो ऽशपन् आक्रुष्टवन्तः 'पापाः क्व यास्यथ' इति । ५७२ । श्लाघ-हुङ्-११४३४।' इत्यादिना सम्प्रदानसंज्ञा ॥ १३५१-अपूजयंश् चतुर्-वक्रं, विप्रानार्चस्तथाऽस्तुवन् ,॥
समालिपत शक्राऽरिर् यानं चाऽभ्यलषद् वरम्.॥५॥ अपूजयन्नित्यादि-चतुर्वकं ब्रह्माणमपूजयन् अर्चितवन्तः । विप्रानार्चन् दाननमस्कारादिना पूजितवन्तः । तथा अस्तुवन् परस्परं स्तुतवन्तः । शकारिश्च इन्द्रजित् समालिपत समालिप्तवान् । यानंवरमुत्कृष्टमभ्यलषत् अभीष्टवान् '२३२१॥ वा भ्राश-३३१७०।' इत्यादिना श्यनो विकल्पितत्वात् पक्षे शप् ॥ १३५२-आमुञ्चद् वर्म रत्नाऽऽध्यमबध्नात् खड्गमुज्वलम् , ॥
अध्यास्त स्यन्दनं घोरं, प्रावर्तत ततः पुरः ॥६॥ आमुञ्चदित्यादि-रत्नाढ्यं रत्नप्रत्युतं वर्म कवचमामुञ्चत् शरीर आमुक्त वान् । पिनद्धवानित्यर्थः । खङ्गं चोज्वलमबध्नात् कक्षापार्धाश्रितं कृतवान् । घोरं भीषणं स्वन्दनमध्यास्त आरूढः । ततो ऽनन्तरं पुरः पुरतः प्रावर्तत प्रवृत्तः ॥ १३५३-आनन् भेरीर महा-स्वानाः,
कम्बूंश् चा ऽप्यधमन् शुभान् , ॥ अताडयन् मृदङ्गांश् च,
पेराश् चा ऽपूरयन् कलाः ॥ ७ ॥ आनन्नित्यादि-तस्मात् प्रवृत्ताः महास्वानाः महानादाः । '३२३९। खनहसोवा ।३।३।६२।' इत्यप् । भेरीः आनन् ताडितवन्तः । वादका इत्यर्थात् । शुभान् सुस्वरान् कम्बून् शङ्खानधमन् शब्दितवन्तः । '२३६०। पा-म्रा७३७' इत्यादिना धमादेशः । मृदङ्गांश्चाताडयन् भाहतवन्तः । '१६९३। तड आघाते' इति चुरादिः ॥ १३५४-अस्तुवन् बन्दिनः, शब्दानन्योन्यं चौदभावयन्,॥
अनदन सिंहनादांश् च, प्राद्रेकत हय-द्विपम्. ॥८॥ • अस्तुवन्नित्यादि-बन्दिनः स्तुतिपाठका अस्तुवन् 'जय जीव' इत्यादिना स्तुतिं कृतवन्तः । भन्योन्यं अन्यस्य भन्यस्य च शब्दान् सांसामिकनामानि उदभावयन् उद्घाटितवन्तः सैनिका इत्यर्थात् । सिंहनादांश्वानदन् शब्दितवन्तः । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com