________________
४१२ भट्टिकाव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे चतुर्थो वर्गः,
सप्तदशः सर्गःइतिः प्रभृति लङमधिकृत्य विलसितमाह-तत्र भूतानद्यते लङ् ततो. ऽन्यत्र दर्शयिष्यति१३४७-आशासत ततः शान्तिमनुग्नीनहावयन् , ॥
विप्रानवाचयन् योधाः, प्राकुर्वन् मङ्गलानि च. ॥१॥ आशासतेत्यादि-ततः प्रतिज्ञानन्तरं योधाः इन्द्रजित्सम्बन्धिन इत्यर्थात् उपद्रवपरिहारार्थ शान्तिमाशासत अभीष्टवन्तः । '१०९२ । आङः शासु इच्छायाम्' इत्यनुदात्तेत् । '२२५८ । आत्मनेपदेष्वनतः ।७।१।५।' इत्यदादेशः । शान्ति च दर्शयन्नाह-अस्नुः नाताः । ११२६। ष्णा शौचे'। आत इत्यधिकृत्य । '२४६३। लङः शाकटायनस्यैव ।३।११११॥' इति झेर्नुस् । '२२१४। उस्यपदान्तात् ।६।१।९६।' इति पररूपम् । अग्नीनहावयन् अग्निकर्म कारितवन्तः । विप्रानवाचयन् स्वस्तिवाचनं कारितवन्तः । मङ्गलानि मङ्गल. युक्तानि कर्माणि कृतवन्तः ॥ १३४८-अपूजयन् कुल-ज्येष्ठानुपागृहन्त बालकान्. ॥
स्त्रीः समावंर्धयन् साऽस्राः, कार्याणि प्रादिशंस् तथा.२ अपूजयन्नित्यादि-कुलज्येष्ठान् वृद्धानपूजयन् पूजितवन्तः पादपतना. दिना । बालकानुपागूहन्त आश्लिष्टवन्तः । गतानां किं भविष्यतीति सास्राः स्त्रीः योषितः । '३०२। वा ऽम्-शसोः ।६।४।८०।' इतीयङभावपक्षे रूपम् । समावर्धयन् ताम्बूलादिना संवर्धितवन्तः । 'प्रातिपदिकाद्धात्वर्थ' इति णिच् । तथा कार्याणि गृहकार्याणि प्रादिशन् निर्दिष्टवन्तः । 'इदमिदं कार्यम्' इति ॥ १३४९-आच्छादयन् , व्यलिम्पंश् च,
प्राश्नन्नथ सुराऽऽमिषम् , ॥ प्रापिबन् मधु-माध्वीक
भक्ष्यांश् चा ऽऽदन् यथेप्सितान् ॥ ३ ॥ आच्छादयन्नित्यादि-आच्छादयन् वस्त्राणि पिनद्धवन्तः । १८३४॥ छद संवरणे' चुरादिः । व्यलिम्पंश्च समालितवन्तः । १७२७। लिप उपदेहे' । '२५४२। शे मुचादीनाम् ७।११५९।' इति नुम् । १४०। न श्छव्यप्रशान् ।।३।७।' इति रुत्वम् । पूर्वस्थानुनासिकः । अथानन्तरं सुरामिषं प्राश्नन् अभ्यवहृतवन्तः। मधु माध्वीकं मध्वासवं प्रापिबन् सुष्टु पीतवन्तः । भक्ष्यांश्च खण्डपायसादीन् यथेप्सितानादन् भक्षितवन्तः । अडित्यनुवृत्तौ २४२६। अदः सर्वेषाम् । ७।२।१००।' इत्यडागमः ॥ १३५०-न्यश्यन् शस्त्राण्यभीष्टानि, समनाश् च वर्मभिः, ॥
अध्यासत सु-यागानि, द्विषद्भ्यश् चा ऽशपंस् तथा. ४ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com