________________
तथा लक्ष्य-रूपे कथानके 'रावण- विलापो' नाम षोडशः सर्गः - ४११
ज्ञायिष्यन्त इत्यादि - एते च द्विषां गणाः शत्रुसंघाः वीरंमन्याः अद्य मया ज्ञायिष्यन्ते परिच्छेत्स्यन्ते यादृशा इति । कर्मणि लुट् । चिण्वदिट् । वनौकसां कपीनां गात्रैः [ कृत्तैः ] छिन्नैरद्य क्षितिं गूहिष्यामि ॥
१३४६ - आरोक्ष्यामि युगान्त वारिदघटासंघट्ट - धीर-ध्वनिं निर्यास्यन् रथमुच्छ्रित-ध्वज-धनुः
खड्ग-प्रभा भासुरम्. ॥ श्रोष्यस्येद्य विकीर्ण-वृक्ण-विमुखव्यापन्न - शत्रौ रणे
"
तृप्तांश् छोणित- शोण-भीषणमुखान् क्रव्याशिनः क्रोशतः ॥ ४२ ॥ इति भट्टिकाव्ये तिङन्तकाण्डे लविलसितो नाम षोडशः सर्गः ॥
आरोक्ष्यामीत्यादि - अतोऽहं रथमारोक्ष्यामि निर्यास्यन् इतो निर्गच्छन् । आरोक्ष्यामीति क्रियायां क्रियार्थायामुपपदे निर्यास्यचिति ' २१९३ । लृट् शेषे च |३|३|१३|' इति चकाराल्लूद । कीदृशं रथम् । युगान्ते प्रलयकाले या वारिदघटास्तासां यः संघट्टः परस्परसंमर्दः तस्येव धीरो गम्भीरो ध्वनिर्यस्य रथस्य । उच्छ्रिता ध्वजाः धनूंषि च यत्र । खड्गप्रभाभिश्च भासनशीलो यः । पश्चाद्विशेषणसमासः । उच्छ्रितानां वा ध्वजादीनां प्रभाभिर्भासुर इति योज्यम् । विकीर्णां इतस्ततो विक्षिप्ताः वृक्णाः छिन्नाः छिन्नमस्तकाः विमुखाः पराङ्मुखा व्यापन्ना मृताः शत्रवो यस्मिन् रणे । क्रव्याशिनः शृगालादीन् क्रोशतः फूत्कुर्वतः अद्य श्रोष्यसि । कीदृशान् । तृप्तान् शोणितमांसोपभोगात् । शोणितेन शोणानि लोहितानि तत एव भीषणानि भयंकराणि मुखानि येषामिति । वृश्वेरोदितो निष्ठानत्वस्यासिद्धत्वात् चोः कुत्वे वृक्ण इति ॥
इति श्री - जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री भट्टिकाव्येचतुर्थे तिङन्तकाण्डे लक्षण-रूपे तृतीयः परिच्छेदः (वर्गः ) तथा लक्ष्य रूपे कथानके 'रावण-विलापो' नाम षोडशः सर्गः ॥ १६ ॥
१ - पद्ये ऽस्मिन् वृत्तं शार्दूलविक्रीडितम् । तल्लक्षणम् —'सूर्याश्चैर्म-स-जस्-त-ताः सगु• खः शार्दूलविक्रीडितम् ।' इति वृत्तरलाकरे भट्टकेदारः ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com