________________
४१० भट्टि-काव्ये-चतुर्थे तिडन्त-काण्डे लक्षण-रूपे तृतीयो वर्गः, १३४१-ना ऽभिज्ञा ते, स-यक्षेन्द्र
भक्ष्यावो यद् यमं बलात्, ॥ रत्नानि चा ऽऽहरिष्यावः,
प्राप्स्यावश् च पुरीमिमाम्. ॥ ३७ ॥ नाभिशेत्यादि-न सेत्यभिज्ञास्ति । सयक्षेन्द्रं धनदसहितं यमं बलात् सामर्थेन आवां भक्ष्यावः भग्नवन्तौ रत्नानि च ताभ्यां बलादाहरिष्यावः । इमां च पुरी लङ्कां प्राप्स्यावः । २७७५। विभाषा साकाङ्के ।३।२।११४' इति लट् । लक्ष्यलक्षणयोः सम्बन्धे प्रयोक्तुराकाङ्क्षा । तत्र भञ्जनं लक्षणं रत्नाद्याहरणं च लक्ष्यम् ॥ १३४२-एष पेक्ष्याम्यरीन भूयो, न शोचिष्यसि रावण! ॥
जगद् द्रक्ष्यसि नी-राममेवगाहिष्यसे दिशः. ॥३८॥ एष इत्यादि-एषो ऽहं भूयः पुनररीन् पेक्ष्यामि चूर्णयिष्यामि । वर्तमानसामीप्ये वर्तमानिकप्रत्ययस्य विकल्पेन विधानाल्लडेव भवति । येन हे रावण ! न शोचिष्यसि शोकं न करिष्यसि । भविष्यति लट् । जगत् नीरामं रामरहितं द्रक्ष्यसि । दिशश्च सर्वा अवगाहिष्यसे व्याप्स्यसि ॥ १३४३-सह-भृत्यः सुराऽऽवासे भयं भूयो विधास्यसि ॥
प्रणस्यत्यद्य देवेन्द्रस् त्वां, वक्ष्यति स सन्नतिम्. ३९ सहेत्यादि-भृत्यैः सह सुरावासे स्वर्गे भूयो भयं विधास्यसि करिष्यसि । देवेन्द्रश्च त्वां प्रणंस्यति 'स्वदीयो ऽहम्' इति निवेदयिष्यति । वक्ष्यति च सन्नतिं भणिष्यति च नमस्कारम् ॥ १३४४-भेष्यते मुनिभिस् त्वत्तस् त्वमधिष्ठास्यसि द्विषः, ॥
ज्ञास्ये ऽहमद्य संग्रामे समस्तैः शूर-मानिभिः॥४०॥ भेष्यत इत्यादि-मुनिभिस्त्वत्तो भेष्यते भीतैर्भवितव्यम् । भावे लट् । त्वमधिष्ठास्यसि द्विषः शत्रून् परिभविष्यसि । ५४२। अधिशीड-१४४६।' इति कर्मसंज्ञा । यादृशश्वाहं तादृशः संग्रामे ज्ञास्ये ज्ञातो भविष्यामि । कर्मणि लट् । कैः । समस्तैः शूरमानिभिः वयं शूरा इत्यात्मानं मन्यमानैः । '२९९३। आत्ममाने खश्च ।३।२।०३।' ॥ १३४५-ज्ञायिष्यन्ते मया चा ऽद्य
वीरं-मन्या द्विषद्-गणाः, ॥ गूहिष्यामि क्षितिं कृत्तै
रद्य गात्रैर् वौकसाम्. ॥४१॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com