________________
तथा लक्ष्य-रूपे कथानके 'रावण-विलापो' नाम षोडशः सर्गः- ४०९
युग्मम् ३३,३४१३३७-प्राङ् मुहूर्तात् प्रभातेऽहं भविष्यामि ध्रुवं सुखी ॥
____ आगामिनि, ततः काले यो द्वितीयः क्षणोऽपरः ॥ प्रागित्यादि-यो ऽयमागामी प्रभातकालः मुहूर्तद्वयसम्मितः तस्मिंस्तस्येति षष्ठीसप्तम्योरभेदात् । यो द्वितीयो मुहूर्तः तस्मात् प्राक् प्रथमे मुहूर्ते अहमवश्यं सुखी भविष्यामि । तदानी हतशत्रुत्वात् । ततः प्रभातादागामी यः कालः क्षणद्वयसंमितः तस्मिन्नागामिनि काले यो द्वितीयः तस्माद्यदपरः क्षणः पूर्वः तत्रेति वक्ष्यमाणेन सम्बन्धः ॥ १३३८-तत्र जेतुं गमिष्यामि त्रिदशेन्द्रं सहाऽमरम् , ॥
ततः परेण भूयो ऽपि लङ्कामेष्याम्यमत्सरः॥३४॥' तत्रेत्यादि-तत्र क्षणे त्रिदशेन्द्रं सहामरं देवैः सहितं जेतुं द्रुतं गमिष्यामि । प्राङ्मुहूर्तात् सुखी भविष्यामि । क्षणाद्यदपरं तत्र जेतुं गमिष्यामीति २७९५। कालविभागे चानहोरात्राणाम् ।३।३।१३७।'. इति अनद्यतनवत् प्रत्ययप्रतिषेधे लद । तत्र हि '२७९३। नानद्यतनवत्-३।३।१३५।' इति 'भविष्यतिमर्यादाव. चनेऽवरस्मिन्' इति चानुवर्तते । तत्र जेतुं कालमर्यादाविभागे सति योऽवर आद्यप्रविभागः तत्र भविष्यति काले अनद्यतनवत्प्रत्ययविधिन भवति । ततो लट्प्रतिषेधाल्लडेव भवति । ततः परेणेति यस्मिन्नागामिनि काले शकं जेतुं गमिप्यामि तत्र द्वितीयो यः क्षणस्तस्मात् परेणोपरिष्टात्तं शक्र जित्वा भूयो ऽपि लङ्कामेष्यामि । आपूर्वस्येणो रूपम् । अमत्सरो विगतकोधः सन् । १७९३। परस्मिन् विभाषा ।३।३।१३।' इत्यनेन विभाषालुदप्रतिषेधाल्लुट् । तत्र हि कालविभागे सति भविष्यति काले परस्मिन् विभाषा अनद्यतनवत्प्रत्ययविधिर्न भवतीत्युक्तम् ॥ १३३९-तमेवं-वादिनं मूढमिन्द्रजित् समुपागतः ॥
'युयुत्सिष्ये ऽहमित्येवं वदन् रिपु-भयंकरः ॥३५॥ तमित्यादि-तं रावणं मूढत्वादेवंवादिनं एवंभाषणशीलं इन्द्रजित् रिपोभयंकरः समुपागतः । युयुरिसष्ये ऽहं योद्धुमिच्छां करिष्यामीति ब्रुवन् । केन सह योद्धुमिच्छामीति चेदाह१३४०-ना ऽभिज्ञा ते महाराज!,
जेष्यावः शक्र-पालितम् ॥ दृप्त-देव-गुणाऽऽकीर्ण
मावां सह सुराऽऽलयम्, ॥ ३६ ॥ नाभिनेत्यादि-हे महाराज ! ते तव नाभिज्ञा स्मृतिः सुरालयं शक्रेण 'पालितं हप्तैश्च देवगणैराकीर्णं व्याप्तम् । आवां द्वावपि सह संभूय जेष्यावः जितवन्तौ । २७७३। अमिज्ञावचने लट् ।३।२।१२।' तत्र 'भूतानद्यतने' इति वर्तते
भ० का० ३५ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com