Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji
View full book text
________________
४२४ भट्टिकाव्ये – चतुर्थे तिङन्तकाण्डे लक्षण-रूपे चतुर्थी वर्गः, १४०२ - अपूरयन् नभः शब्दो बल-संवर्त - संभवः ॥
अपूर्यन्त च दिग् - भागास तुमुलैस तूर्य - निस्वनैः. ५६ अपूरयदित्यादि - बलानां संवर्त एकीभावः तस्मात्संभवो यस्य स शब्दः नभ आकाशमपूरयत् पूरितवान् । तुमुलैस्तूर्यनिस्वनैः महद्भिर्घोषैर्दिग्भागा अपूर्यन्त पूर्णाः । कर्मणि लङ्
१४०३ - आसीद् द्वारेषु संघट्टो रथाऽश्व-द्विपरक्षसाम् ॥ सुमहान - निमित्तैश् च समभूयत भीषणैः ॥ ५७ ॥
आसीदित्यादि - रथादीनां निर्गच्छतां लङ्काद्वारेषु संघट्टः सुमहानासीत । जनभूयस्तया संघर्षो ऽभूत् । ' २३२५ | अस्तिसिचोऽपृक्ते | ७ | ३ | १६ | ' इतीट् । अनिमित्तैः भीषणैर्भयंकरैर्महद्भिः समभूयत क्षयकरैर्निमित्तैर्भूतम् । भावे लङ् ॥ १४०४ - कपयो ऽविभयुस् तस्मिन्न॑भञ्ज॑श् च महा- द्रुमान् ॥ प्रोदखायन् गिरींस् तूर्णम॑गृह्णश् च महा- शिलाः.५८
कपय इत्यादि - तस्मिन्निर्गते कपयो ऽविभयुः भीतवन्तः । महाद्रुमांश्च योद्धुमभञ्जन् भग्नवन्तः । गिरीन् प्रोदखायन् उत्खातवन्तः । '९७८ । खै खदने' शिति भत्वं न भवति । महाशिला अगृह्णन् गृहीतवन्तः ॥
१४०५- ततः समभवद् युद्धं प्राहरन् कपि-राक्षसाः, ॥ अन्योन्येना ऽभ्यभूयन्त, विमर्दमसहन्त च ॥ ५९ ॥
तत इत्यादि - ततो ऽनन्तरं युद्धं समभवत् प्रवृत्तम् । कपिराक्षसाः प्राहरन् प्रहृतवन्तः । अन्योन्येनाभ्यभूयन्त कपयो राक्षसैः राक्षसाश्च कपिभिरिति । कर्मणि लङ् । विमर्दमसहन्त च सोढवन्तः ॥
"
१४०६ - प्रावर्धत रजो भौमं तद् व्याश्रुत दिशो दश ॥ पराssत्मीय - विवेकं च प्रामुष्णात् कपि- रक्षसाम्. ॥
I
प्रावर्धतेत्यादि - बलद्वयप्रक्षोभात् भौमं रजः प्रावर्धत प्रवृद्धम् । तद्वजो दश दिशो व्याञ्जत व्यामोत् । अयं परो ऽयं चात्मीय इति यो विवेकस्तं च प्रामुष्णात् अपनीतवत् । ' १६२९| मुष स्तेये' ऋयादिः ॥ १४०७ - ततो ऽद्विषुर् निरालोके
●
स्वेभ्यो ऽन्येभ्यश् च राक्षसाः ॥ अद्विषन् वानराश् चैव वानरेभ्यो ऽपि निर्दयाः ॥ ६१ ॥
तत इत्यादि - ततो ऽनन्तरं निरालोके समरे राक्षसाः स्वेभ्यो ऽन्येभ्यश्वाद्विषुः क्रुध्यन्ति स्म । वानरा अपि वानरेभ्यो ऽद्विषन् निर्देयाः सन्तः । अपि
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514