Book Title: Bhattikavyam
Author(s): Bhatti Mahakavi
Publisher: Pandurang Javaji

View full book text
Previous | Next

Page 459
________________ ४२६ भट्टिकाव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे चतुर्थो वर्गः, वान् । १५४६। पिषु संचूर्णने' सर्वे रौधादिकाः । न च संचरन् रामः अज्ञायत न ज्ञातः । स्वैः परत्यर्थात् । कर्मणि ला॥ युग्मम्-६७।६८ १४१३-दश दन्ति-सहस्राणि रथिनां च महाऽऽत्मनाम् ॥ चतुर्दश सहस्राणि साऽऽरोहाणां च वाजिनाम् ६७ १४१४-लक्षे च द्वे पदातीनां राघवेण धनुर्-भृता ॥ अनीयन्ताष्टमे भागे दिवसस्य परिक्षयम्.॥ ६८॥ दशेत्यादि-अनेन श्लोकद्वयेन राघवेण धनुर्भूता दिवसस्याष्टमे भागे अर्धप्रहरे दश दन्तिनां सहस्राणि रथिनां च महात्मनां चतुर्दश सहस्राणि । सारोहाणां च वाजिनां तावन्त्येव । पदातीनाम् द्वे लक्षे परिक्षयं विनाशमनीयन्त नीताः । कर्मणि लङ् । अनीयतेति पाठान्तरं तत्र सर्वमेतदनीयतेति योज्यम् ॥ १४१५-यम-लोकमिवा, ग्रश्नाद्, रुद्राऽऽक्रीडमिवा ऽकरोत् , ॥ शैलैरिवा ऽचिनोद् भूमि बृहद्भी राक्षसैर हतैः ॥ ६९ ॥ यमलोकमित्यादि-स राघवः तैः राक्षसैः बृहद्भिः यमलोकमिवाप्रश्नात सन्दर्भितवान् । १६०९।१०। श्रन्थ ग्रन्थ सन्दर्भे' इति श्यादिः । रुद्राक्रीडमिव रुद्रस्य क्रीडास्थानं सशानमिवाकरोत् । भूमि शैलैरिवाचिनोत् छादितवान् ॥ १४१६-अस्तुवन् देव-गन्धर्धा, व्यस्मयन्त प्लवङ्गमाः, ॥ कपीन्द्रेऽतन्यत प्रीतिः, पौलस्त्योऽमन्यताऽद्भुतम्॥ अस्तुवनित्यादि-तमद्भुतकर्मकारिणं देवा अस्तुवन् स्तुवन्ति स्म । प्लवगमाः कपयः व्यस्मयन्त विस्मिताः । ङित्त्वात्तङ् । कपीन्द्रे सुग्रीवे प्रीतिरतन्यत तन्यते स । कर्मकर्तरि लङ । पौलस्त्यो विभीषणः आश्चर्य ज्ञातवान् ॥ १४१७-राक्षस्यः प्रारुदन्नुच्चैः, प्राजुगुप्सन्त रावणम् ॥ अमुह्यद् बाल-वृद्धं च, समरौदितरो जनः ॥७१॥ राक्षस्य इत्यादि-राक्षस्यो भादिवधदुःखिताः उच्चैः प्रारुदन रुदितवत्यः । '२४७४। रुदादिभ्यः-७।२७६।' इतीद न भवति अहलादित्वात् । रावणं प्रांजुगुप्सन्त निन्दितवत्यः । एतदुर्णयात् सर्वमिति । बाला वृद्धाश्च तद्यं अमुहत् भवाम्मोहं गतम् । इतरो जनः राक्षसीबालवृद्धभ्योऽन्यः समरौत् आकुष्टवान् । 11०1रु शन्दे' '२४४३। उतो वृद्धिलुकि हलि ।।३।०९।' ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514